कृ॒णोमि॑ ते प्राजाप॒त्यमा योनिं॒ गर्भ॑ एतु ते। वि॒न्दस्व॒ त्वं पु॒त्रं ना॑रि॒ यस्तुभ्यं॒ शमस॒च्छमु॒ तस्मै॒ त्वं भव॑ ॥
पद पाठ
कृणोमि । ते । प्राजाऽपत्यम् । आ । योनिम् । गर्भ: । एतु । ते । विन्दस्व । त्वम् । पुत्रम् । नारि । य: । तुभ्यम् । शम् । असत् । शम् । ऊं इति । तस्मै । त्वम् । भव ॥२३.५॥
अथर्ववेद » काण्ड:3» सूक्त:23» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
वीर सन्तान उत्पन्न करने के उपदेश।
पदार्थान्वयभाषाः - (ते) तेरे लिये (प्राजापत्यम्) सन्तानरक्षक कर्म [गर्भाधान, पुंसवनादि संस्कार] (कृणोमि) मैं करता हूँ, (ते) तेरा (गर्भः) गर्भ (योनिम्) गर्भाशय में (आ एतु) आवे। (नारि) हे नर की हितकारिणी ! (त्वम्) तू (पुत्रम्) कुलशोधक सन्तान (विन्दस्व) प्राप्त कर (यः) जो (तुभ्यम्) तुझको (शम्) सुखदायक (असत्) होवे, (उ) और (त्वम्) तू (तस्मै) उसको (शम्) सुखदायक (भव) हो ॥५॥
भावार्थभाषाः - सब मनुष्य वैद्यक शास्त्र के अनुसार उचित काल में उचित रीति से अमोघ गर्भाधानादि संस्कार करके सन्तान उत्पन्न करें, जिससे उस सन्तान का जन्म, आप उसको और माता पिता सबको सुखदायक हों ॥५॥
टिप्पणी: ५−(कृणोमि) करोमि। (ते) तुभ्यम्। (प्राजापत्यम्) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। पा० ४।१।८५। इति प्रजाप्रति-ण्य। प्रजापतेर्गृहस्थस्य कर्म धर्म वा। गर्भाधानपुंसवनादिसंस्कारम्। (नारि) अ० १।११।१। हे नरस्य धर्म्ये। (शम्) सुखहेतुः। (उ) अपि च। अन्यद् गतम्-म० २, ४ ॥
