उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। वै॑श्वान॒रज्ये॑ष्ठेभ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
पद पाठ
उक्षऽअन्नाय । वशाऽअन्नाय । सोमऽपृष्ठाय । वेधसे । वैश्वानरऽज्येष्ठेभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.६॥
अथर्ववेद » काण्ड:3» सूक्त:21» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - (उक्षान्नाय) प्रबलों के अन्नदाता, (वशान्नाय) वशीभूत निर्बल प्रजाओं के अन्नदाता, (सोमपृष्ठाय) अमृत सींचनेवाले और (वेधसे) उत्पन्न करनेवाले (तेभ्यः) उन [चार प्रकार के] (वैश्वानरज्येष्ठेभ्यः) सब नरों के हितकारी [परमेश्वर] को प्रधान रखनेवाले (अग्निभ्यः) अग्नियों [ईश्वरतेजों] को (एतत्) यह (हुतम्) दान [आत्मसमर्पण] (अस्तु) होवे ॥६॥
भावार्थभाषाः - जिस (वैश्वानर) सब मनुष्य आदि के हितकारी परमेश्वर की शक्ति से सब प्राणी पुष्ट होते हैं, उसको हमारा नमस्कार है ॥६॥ इस मन्त्र का पूर्वार्ध ऋग्वेद ८।४३।११ में है ॥
टिप्पणी: ६−(उक्षान्नाय) श्वन्नुक्षन्पूषन्०। उ० १।१५९। इति उक्ष सेचने, वृद्धौ च-कनिन्। उक्षा महन्नाम-निघ० ३।३। उक्षण उक्षतेर्वृद्धिकर्मणः। निरु० १२।९। कॄवृजॄसिद्रुपन्यनि०। उ० ३।१०। इति अन प्राणने-न। इति अन्नम्। उक्षभ्यो महद्भ्यः प्रबलेभ्योऽन्नं यस्मात् तस्मै। प्रबलानां भोजनदात्रे। (वशान्नाय) वशिरण्योरुपसंख्यानम्। वा० पा० ३।३।५८। इति वश स्पृहायाम्-अप्, टाप्। वशाभ्यो वशीभूताभ्यः प्रजाभ्योऽन्नं यस्मात् तस्मै। निर्बलप्रजानां भोजनदात्रे। (सोमपृष्ठाय) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। इति पृषु सेचने-थक्। अमृतसेचकाय। (वेधसे) अ० ११।१। विधात्रे। विधानकर्त्रे (वेश्वानरज्येष्ठेभ्यः) वैश्वानर इति व्याख्यातम्-अ० १।१०।४। विश्वनरहितः परमेश्वरो ज्येष्ठो वृद्धः प्रधानो येषां तेभ्यः। अन्यद् गतम् ॥
