यः सोमे॑ अ॒न्तर्यो गोष्व॒न्तर्य आवि॑ष्टो॒ वयः॑सु॒ यो मृ॒गेषु॑। य आ॑वि॒वेश॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥
य: । सोमे । अन्त: । य: । गोषु । अन्त: । य: । आऽविष्ट: । वय:ऽसु । य: । मृगेषु । य: । आऽविवेश । द्विऽपद: । य: । चतु:ऽपद: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.२॥
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
