तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त। इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥
पद पाठ
तीक्ष्णीयांस: । परशो: । अग्ने: । तीक्ष्णऽतरा: । उत । इन्द्रस्य । वज्रात् । तीक्ष्णीयांस: । येषाम् । अस्मि । पुर:ऽहित: ॥१९.४॥
अथर्ववेद » काण्ड:3» सूक्त:19» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
युद्धविद्या का उपदेश।
पदार्थान्वयभाषाः - वे वीर (परशोः) परसे [कुल्हाड़ी] से (तीक्ष्णीयांसः) अधिक तीक्ष्ण, (अग्नेः) अग्नि से (तीक्ष्णतराः) अधिक तीक्ष्ण (उत) और (इन्द्रस्य) मेघ के (वज्रात्) वज्र [बिजुली] से (तीक्ष्णीयांसः) अधिक तीक्ष्ण हैं, (येषाम्) जिनका मैं (पुरोहितः) पुरोहित वा मुखिया (अस्मि) हूँ ॥४॥
भावार्थभाषाः - सेनापति अपनी सेना का आत्मबल बढ़ावे। आत्मबल से अस्त्र शस्त्र आदि की अपेक्षा अधिक कार्य सिद्ध होता है ॥४॥
टिप्पणी: ४−(तीक्ष्णीयांसः) तीक्ष्ण-ईयसुन्। आत्मबले तीक्ष्णतराः। (परशोः) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति शॄ हिंसायाम्-कु, स च डित्। परान् शत्रून् शृणाति येन। अस्त्रविशेषात्। कुठारात्। (अग्नेः) पावकात्। (तीक्ष्णतराः) तीक्ष्ण-तरप्। निशिततराः। (उत्) अपि च। (इन्द्रस्य) वायुर्वेन्द्रो वान्तरिक्षस्थानः-निरु० ७।५। मेघस्य। (वज्रात्) विद्युतः। अन्यद्गतम्-म० १ ॥
