वांछित मन्त्र चुनें
172 बार पढ़ा गया

नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्। क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥

मन्त्र उच्चारण
पद पाठ

नीचै: । पद्यन्ताम् । अधरे । भवन्तु । ये । न: । सूरिम् । मघऽवानम् । पृतन्यान् । क्षिणामि । ब्रह्मणा । अमित्रान् । उत् । नयामि । स्वान् । अहम् ॥१९.३॥

अथर्ववेद » काण्ड:3» सूक्त:19» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

युद्धविद्या का उपदेश।

पदार्थान्वयभाषाः - वे [शत्रु] (नीचैः) नीचे (पद्यन्ताम्) गिरें और (अधरे) नीचे (भवन्तु) रहें, (ये) जो (नः) हमारे (मघवानम्) धनी (सूरिम्) सूरमा राजा पर (पृतन्यान्) सेना चढ़ावें। (अहम्) मैं (ब्रह्मणा) वेद ज्ञान से (अमित्रान्) शत्रुओं को (क्षिणामि) मारे डालता हूँ और (स्वान्) अपने लोगों को (उन्नयामि) ऊँचा करता हूँ ॥३॥
भावार्थभाषाः - सैनिक लोग ललकार कर वैरियों पर धावा करके मार गिरावें, और राजा उन अपने वीरों को ऊँची-२ पदवी देवें ॥३॥
टिप्पणी: ३−(नीचैः) अवाङ्मुखाः। (पद्यन्ताम्) पतन्तु। (अधरे) निकृष्टाः। पादाक्रान्ताः। (नः) अस्माकम्। (सूरिम्) सूङः क्रिः। उ० ४।६४। इति षूङ् प्रसवे, वा षू प्रेरणे-क्रि। सूते अर्थान्। सुवति शत्रून्। शूरम्। राजानम्। पण्डितम्। (मघवानम्) मघम्=धनम्। निघ० २।१०। मत्वर्थीयो वनिप्। प्रभूतधनवन्तम्। (पृतन्यान्)। सुप आत्मनः क्यच्। पा० ३।१।८। इति पृतना-क्यच्। कव्यध्वरपृतनस्यर्चि लोपः। पा० ७।४।३९। इति क्यचि पृतना-शब्दस्य अन्त्यलोपः। लेटि आडागमः। पृतन्यन्तु पृतनां सेनाम् आत्मन इच्छन्तु। (क्षिणाम्) क्षि हिंसायाम्। नाशयामि। (ब्रह्मणा) वेदज्ञानेन। शास्त्रबोधेन। (अमित्रान्) अ० १।१९।२। पीडकान्। (उत् नयामि) उन्नतान् करोमि। (स्वान्) स्वकीयान् वीरान्। (अहम्) सेनापतिः ॥