इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥
इमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥
पण्डित क्षेमकरणदास त्रिवेदी
व्यापार के लाभ का उपदेश।
