वांछित मन्त्र चुनें
141 बार पढ़ा गया

अ॑पका॒मं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म्। इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्नाम॑ वो हि॒तम् ॥

मन्त्र उच्चारण
पद पाठ

अपऽकामम् । स्यन्दमाना: । अवीवरत । व: । हि । कम् । इन्द्र: । व: । शक्तिऽभि: । देवी: । तस्मात् । वा: । नाम । व: । हितम् ॥१३.३॥

अथर्ववेद » काण्ड:3» सूक्त:13» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

जल के गुणों का उपदेश।

पदार्थान्वयभाषाः - (वः) वेगवान् वा वरणीय (इन्द्रः) जीव [वा सूर्य्य] ने (हि) ही (अपकामम्) व्यर्थ (स्यन्दमानाः) बहते हुए (वः) तुमको (शक्तिभिः) अपनी शक्तियों द्वारा (कम्) सुख से (अवीवरत) वरण [स्वीकार] अथवा, वारण [रोकना] किया, (तस्मात्) इससे (देवीः=देव्यः) हे दिव्य गुणवाली वा खेलवाली जल धाराओ ! (वः) तुम्हारा (नाम) नाम (वार्) वरणयोग्य वा वारणयोग्य जल (हितम्) रक्खा गया है ॥३॥
भावार्थभाषाः - मनुष्य भूमि पर अन्नादि के लिये और सूर्य्य आकाश में वृष्टि के लिये जल को चाहता है वा रोकता है, इसलिये जल का नाम वार् है। अवीवरत क्रिया और वार् शब्द दोनों वृञ् चाहना वा रोकना धातु से बनते हैं ॥३॥
टिप्पणी: ३−(अपकामम्)। विनैव कामेन, व्यर्थम्। (स्यन्दमानाः)। स्यन्दनं कुर्वाणाः। (अवीवरत)। वृञ् वरणे, यद्वा, वृ वारणे, स्वार्थिको णिच्। वृतवान्। वारितवान्। (वः)। युष्मान्। (हि)। निश्चयेन। (कम्)। सुखेन। (इन्द्रः)। जीवः। सूर्य्यः। (वः)। गतौ, वा, वृञ् वरणे-ड। वायुः, वरुणः। वेगवान्। वरणीयः। (शक्तिभिः)। स्वसामर्थ्यैः। (देवीः)। दिवु दीप्तौ, क्रीडायां च-अच्, ङीप्। हे देव्यः। दिव्यगुणाः। देवनशीलाः। (वार्)। वृञ् वरणे, वा वृ वारणे-णिच् क्विप्। (व्रियते) वार्यते वा यत्तद्। जलम्। (वः)। युष्माकम्। (हितम्)। धाञ् धारणे-क्त। धृतम् ॥