ऋ॒तेन॒ स्थूणा॒मधि॑ रोह वंशो॒ग्रो वि॒राज॒न्नप॑ वृङ्क्ष्व॒ शत्रू॑न्। मा ते॑ रिषन्नुपस॒त्तारो॑ गृ॒हाणां॑ शाले श॒तं जी॑वेम श॒रदः॒ सर्व॑वीराः ॥
ऋतेन । स्थूणाम् । अधि । रोह । वंश । उग्र: । विऽराजन् । अप । वृङ्क्ष्व । शत्रून् । मा । ते । रिषन् । उपऽसत्तार: । गृहाणाम् । शाले । शतम् । जीवेम । शरद: । सर्वऽवीरा: ॥१२.६॥
पण्डित क्षेमकरणदास त्रिवेदी
नवीनशाला का निर्माण और प्रवेश।
