181 बार पढ़ा गया
ध॑रु॒ण्य॑सि शाले बृ॒हछ॑न्दाः॒ पूति॑धान्या। आ त्वा॑ व॒त्सो ग॑मे॒दा कु॑मा॒र आ धे॒नवः॑ सा॒यमा॒स्पन्द॑मानाः ॥
पद पाठ
धरुणी । असि । शाले । बृहत्ऽछन्दा: । पूतिऽधान्या । आ । त्वा । वत्स: । गमेत् । आ । कुमार: । आ । धेनव: । सायम् । आऽस्पन्दमाना: ॥१२.३॥
अथर्ववेद » काण्ड:3» सूक्त:12» पर्यायः:0» मन्त्र:3
पण्डित क्षेमकरणदास त्रिवेदी
नवीनशाला का निर्माण और प्रवेश।
पदार्थान्वयभाषाः - (शाले) हे शाला ! तू (बृहच्छन्दाः) विशाल छतवाली, वा बहुत से छन्द वा वेद मन्त्रोंवाली, (पूतिधान्या) शुद्ध धान्यवाली (धरुणी) भण्डार (असि) है। (त्वा) तुझमें (वत्सः) बछड़ा (आ) और (कुमारः) बालक (आ गमेत्) आवे। (सायम्) सायंकाल में (आस्पन्दमानाः) कूदती हुई (धेनवः) दुधैल गौयें (आ=आगच्छन्तु) आवें ॥३॥
भावार्थभाषाः - स्पष्ट है और-और स्थानों के साथ घरों में वैदिकभवन भी होवे ॥३॥
टिप्पणी: ३−(धरुणी)। कॄवृदारिभ्य उनन्। ड० ३।५३। इति धृञ्-उनन्। ङीप्। भोगजातस्य धारयित्री। (शाले)। (बृहच्छन्दाः)। चन्देरादेश्च छः। उ० ४।२१९। इति बृहत्+चदि आह्लादे-असुन्। चस्य छः। यद्वा। छदि आच्छादने-असुन्। प्रभूताच्छादना। महद्भिश्छन्दोभिर्वेदमन्त्रैरुपेता। (पूतिधान्या)। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति पूञ् शोधे-क्तिच्। पूतीनि पवित्राणि धान्यानि यस्यां सा तथोक्ता। शुद्धधान्ययुक्ता। (वत्सः)। वृतॄवदिवचिवसि०। उ० ३।६२। इति वद कथने-स प्रत्ययः। वदतीति वत्सः। (आगमेत्)। आगच्छेत्। (आ)। समुच्चये। (कुमारः)। कमेः किदुच्चोपधायाः। उ० ३।१३८। इति कम इच्छायाम्-आरन्। (यद्वा)। कुमार क्रीडायाम्-अच्। कमनीयः क्रीडको वा। बालकः। (आ)। आगच्छेयुः। (धेनवः)। दोग्ध्र्यो गावः। (सायम्)। सयंकाले। (आस्पन्दमानाः)। स्पदि ईषाकम्पे शानच्। कूर्दमानः। क्रीडां कुर्वाणाः ॥
