वांछित मन्त्र चुनें
162 बार पढ़ा गया

स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्। इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥

मन्त्र उच्चारण
पद पाठ

सहस्रऽअक्षेण । शतऽवीर्येण । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् । इन्द्र: । यथा । एनम् । शरद: । नयाति । अति । विश्वस्य । दु:ऽइतस्य । पारम् ॥११.३॥

अथर्ववेद » काण्ड:3» सूक्त:11» पर्यायः:0» मन्त्र:3


पण्डित क्षेमकरणदास त्रिवेदी

रोग नाश करने के लिये उपदेश।

पदार्थान्वयभाषाः - (सहस्राक्षेण) सहस्रों नेत्रवाले, (शतवीर्येण) सैकड़ों सामर्थ्यवाले (शतायुषा) सैकड़ों जीवनशक्तिवाले (हविषा) आत्मदान वा भक्ति से (एनम्) इस [आत्मा] को (आ अहार्षम्) मैंने उभारा है। (यथा) जिससे (इन्द्रः) ऐश्वर्यवान् मनुष्य (एनम्) इस [देही] को (विश्वस्य) प्रत्येक (दुरितस्य) कष्ट के (पारम्) पार (अति=अतीत्य) निकालकर (शरदः) [सौ] शरद् ऋतुओं तक (नयाति) पहुँचावे ॥३॥
भावार्थभाषाः - जब मनुष्य एकाग्रचित्त होकर अनेक प्रकार से अपनी दर्शनशक्ति, कर्मशक्ति और जीविकाशक्ति बढ़ाकर अपने को सुधारता है, तब वह इन्द्र पुरुष सब उलझनों को सुलझाकर यशस्वी होकर चिरंजीवी होता है ॥३॥
टिप्पणी: ३−(सहस्राक्षेण)। सहस्रम् बहुनाम-निघ० ३।१। सहो बलम्-निघ० २।९। रो मत्वर्थीयः। सहस्रं सहस्वत्-निरु० ३।१। बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्। पा० ५।४।११३। इति षच्। सहस्रं बहूनि अक्षीणि चक्षूंषि दर्शनशक्तयो यस्य तेन तथोक्तेन। (शतवीर्येण)। शतम्। शो तीक्ष्णीकरणे-डतच्। बहुनाम। निघ० ३।१। शतं दशदशतयः-निरु० ३।१०। बहुसामर्थ्योपेतेन। (शतायुषा)। बहुजीवनसाधनयुक्तेन। (हविषा)। आत्मदानेन। भक्त्या। (आ अहार्षम्)। हृञ् हरणे-लुङ् समन्ताद् अनैषम्। उन्नीतवानस्मि। (एनम्)। आत्मानम्। देहिनम्। (इन्द्रः)। प्रतापी जीवः। (यथा)। येन प्रकारेण। (शरदः)। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। शतं शरदः संवत्सरान्। (नयाति)। णीञ् प्रापणे लेटि आडागमः। नयेत्। प्रापयेत्। (अति)। अतीत्य। (विश्वस्य)। सर्वस्य। प्रत्येकस्य। (दुरितस्य)। अ० २।६।५। पापस्य। कष्टस्य। (पारम्)। पार कर्मसमाप्तौ-अच्। तीरम्। अन्तम् ॥