वांछित मन्त्र चुनें

इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय। ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥

मन्त्र उच्चारण
पद पाठ

इडाया: । पदम् । घृतऽवत् । सरीसृपम् । जातऽवेद: । प्रति । हव्या । गृभाय । ये । ग्राम्या: । पशव: । विश्वऽरूपा: । तेषाम् । सप्तानाम् । मयि । रन्ति: । अस्तु ॥१०.६॥

अथर्ववेद » काण्ड:3» सूक्त:10» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पदार्थान्वयभाषाः - (जातवेदः) हे उत्पन्न पदार्थों के ज्ञानवाले पुरुष ! (इडायाः) प्राप्ति योग्य [प्रकृति] के (घृतवत्) सारयुक्त और (सरीसृपम्) अत्यन्त रेंगते हुए (पदम् प्रति) पद से (हव्या=हव्यानि) देने-लेने योग्य वस्तुओं को (गृभाय) ग्रहण कर। (ये) जो (ग्राम्याः) ग्राम निवासी, (विश्वरूपाः) नानारूपवाले (पशवः) व्यक्त और अव्यक्त वाणीवाले जीव हैं। (तेषाम्) उन सब (सप्तानाम्) आपस में मिले हुए प्राणियों की (रन्तिः) प्रीति वा क्रीड़ा (मयि) मुझमें (अस्तु) होवे ॥६॥
भावार्थभाषाः - सृष्टिविद्या में निपुण पुरुष संसार के पदार्थों से विज्ञान द्वारा उपकार लेकर सब प्राणियों को सुखी रखकर आप सुखी रहते हैं ॥६॥
टिप्पणी: ६−(इडायाः)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति इल स्वप्नगतिक्षेपणेषु-क, लस्य डः। यद्वा। ईड स्तुतौ-धङ्, ईकारस्य ह्रस्वत्वम्। टाप्। इला, पृथिवी-निघ० १।१। वाक्। ३।११। अन्नम्-२।७। गौः-२।११। प्राप्तव्यायाः स्तुत्यायाः प्रकृतेः। (पदम्)। पद स्थैर्ये गतौ च-पचाद्यच्। स्थानम्। गतिः। पादचिह्नम्। (घृतवत्)। सारोपेतम्। (सरीसृपम्)। सृपेर्यङ्लुगन्तात्-पचाद्यच्। अत्यर्थं सर्पत् गच्छत्। (जातवेदः)। अ० १।७।२। हे जातप्रज्ञान ! (प्रति)। प्रथ ख्यातौ-डति। व्याप्य। (हव्या)। हु दानादानादनेषु-यत्। शेर्लोपः। हव्यानि। दातव्यानि ग्राह्याणि वा वस्तूनि। दैवान्नानि। (गृभाय)। छन्दसि शायजपि। पा० ३।१।८४। इति ग्रहेर्लोटि श्नः शायच्। तत्रैव वार्त्तिकं सिद्धान्तकौमुद्याम्। हृग्रहोर्भश्छन्दसि। इति हस्य भः। गृहाण। (ये)। (ग्राम्याः)। अ० २।३४।४। ग्रामीणाः। (पशवः)। व्याख्यातम्-अ० २।२६।१। व्यक्तवचनाश्चाव्यक्तवचनाश्च मनुष्यगवादिप्राणिनः। (विश्वरूपाः)। नानाकाराः। (तेषाम्)। (सप्तानाम्)। अ० १।१।१। षप समवाये-क्त। समवेतानां परस्परसंबद्धानां संयुक्तानाम्। (मयि)। गृहस्वामिनि। (रन्तिः)। रमेः क्तिन्, अनुनासिकलोपाभावः। रतिः। रमणम्। प्रीतिः। (अस्तु)। भवतु ॥