वांछित मन्त्र चुनें

वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

मन्त्र उच्चारण
पद पाठ

वानस्पत्या: । ग्रावाण: । घोषम् । अक्रत । हवि: । कृण्वन्त: । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजस: । सुऽवीरा: । वयम् । स्याम । पतय: । रयीणाम् ॥१०.५॥

अथर्ववेद » काण्ड:3» सूक्त:10» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

पदार्थान्वयभाषाः - (वानस्पत्याः) वनस्पति अर्थात् सेवकों वा सेवनीय गुणों के रक्षक परमेश्वर से सम्बन्धवाले (ग्रावाणः) सूक्ष्मदर्शी, स्तोता पुरुषों ने, (परिवत्सरीणम्) परिवत्सर, सब प्रकार निवास देनेवाले परमेश्वर से सिद्ध किये हुए (हविः) ग्राह्य वस्तु को (कृण्वन्तः) उत्पन्न करते हुए, (घोषम्) ध्वनि (अक्रत) की है।(एकाष्टके) हे अकेली व्याप्तिवाली वा अकेली भोजन स्थानशक्ति [प्रकृति] ! (वयम्) हम लोग (सुप्रजसः) उत्तम सन्तानवाले, (सुवीराः) उत्तम वीरोंवाले और (रयीणाम्) सब प्रकार के धनों के (पतयः) पति (स्याम्) होवें ॥५॥
भावार्थभाषाः - ऋषि-मुनि प्रकृति द्वारा परमेश्वररचित पदार्थों के गुणों के ज्ञान और प्रयोग से सब प्रकार का सुख भोगते हैं। इसी प्रकार सब मनुष्य उद्योग करके आनन्द भोगें ॥५॥
टिप्पणी: ५−(वानस्पत्याः)। अ० ३।६।६। वनानां पतेः सेवकानां सेव्यगुणानां वा पालकस्य परमेश्वरस्य संबन्धिनः पुरुषाः। (ग्रावाणः)। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति हन गतिहिंसनयोः, वा, ग्रह ग्रहणे, वा, गॄ विज्ञाने, शब्दे, निगरणे क्वनिप्। पृषोदरादित्वात् साधुः। गृणातिः स्तुतिकर्मा। निरु० ३।५। ग्रावाणो हन्तेर्वा गृणातेर्वा गृह्णातेर्वा-निरु० ९।८। तथा च। गारयते सूक्ष्मार्थं सुधीः। शास्त्रविज्ञापकाः स्तोतारः। पण्डिताः। (घोषम्)। ध्वनिम्। (अक्रत)। कृञो लुङि। अकृषत। कृतवन्तः। (हविः)। अ० १।४।३। ग्राह्यवस्तु। (कृण्वन्तः)। उत्पादयन्तः। आविष्कुर्वाणाः। (परिवत्सरीणम्)। वसेश्च। उ० ३।७१। इति परि+वस निवासे-सरन्। इति परिवत्सरः परिते। निवासकः। परमेश्वरः। संपरिपूर्वात् ख च। पा० ५।१।९२। इति निर्वृत्तार्थे ख। संवत्सरेण निर्वृत्तं साधितं रचितम्। (एकाष्टके)। इष्यशिभ्यां तकन्। उ० ३।१४८। इति अशू व्याप्तौ, यद्वा, अश भोजने-तकन्। टाप्। अष्टका पितृदेवत्ये। वा० पा० ७।३।४५। इति इत्वाभावः। अश्नुते व्याप्नोति सर्वं जगत् सा, यद्वा, अश्नन्ति सर्वे प्राणिनो यस्यां सा अष्टका। एका चासावष्टका एकाष्टका। हे एकमात्रव्यापनशीले। एकमात्रभोजनस्थाने प्रकृते। (सुप्रजसः)। नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति असिच् समासान्तः। शोभनपुत्रपौत्रादियुक्ताः। (सुवीराः)। अ० ३।५।८। महाशूरयुक्ताः। (वयम्)। मनुष्याः। (स्याम)। भवेम। (पतयः)। स्वामिनः। (रयीणाम्)। धनानाम् ॥