अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
पद पाठ
अश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥
अथर्ववेद » काण्ड:20» सूक्त:96» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - [हे राजन् !] (अश्वायन्तः) घोड़े चाहते हुए (गव्यन्तः) भूमि चाहते हुए, (वाजयन्तः) बल वा अन्न चाहते हुए हम (त्वा) तुझे (उपगन्तवै) आने के लिये (उ) अवश्य करके (हवामहे) बुलाते हैं। (इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] (ते) तेरी (नवायाम्) श्रेष्ठ (सुमतौ) सुमति में (आभूषन्तः) शोभा पाते हुए (वयम्) हम (त्वा) तुझको (शुनम्) सुख से (हुवेम) बुलावें ॥॥
भावार्थभाषाः - प्रजागण धर्मात्मा राजा की नीति में चलकर सदा उन्नति करें ॥॥
टिप्पणी: −(अश्वायन्तः) अश्व-क्यच, शतृ। अश्वाघस्यात्। पा० ७।४।३७। इत्वात्त्वम्। अश्वान् इच्छन्तः (गव्यन्तः) गो-क्यच्, शतृ। वान्तो यि प्रत्यये। पा० ६।१।७९। अवादेशः। गां भूमिमिच्छन्तः (वाजयन्तः) बलमन्नां वेच्छन्तः (हवामहे) आह्वयामः (त्वा) त्वाम् (उपगन्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। गमेः-तवैप्रत्ययः। आगन्तुम् (उ) अवधारणे (आभूषन्तः) अलंक्रियमाणाः। शोभायमानाः (ते) तव (सुमतौ) शोभनायां बुद्धौ (नवायाम्) णु स्तुतौ-अप्। स्तुत्यायाम् (वयम्) (इन्द्र) महाप्रतापिन् राजन् (त्वा) (शुनम्) सुखेन (हुवेम) आह्वयेम ॥
