अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म्। निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥
पद पाठ
अनुऽस्पष्ट: । भवति । एष: । अस्य । य: । अस्मै । रेवान् । न । सुनोति । सोमम् ॥ नि: । अरत्नौ । मघऽवा । तम् । दधाति । ब्रह्मऽद्विष: । हन्ति । अननुऽदिष्ट: ॥९६.४॥
अथर्ववेद » काण्ड:20» सूक्त:96» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (एषः) वह [मनुष्य] (अस्य) इस [शूर पुरुष] का (अनुस्पष्टः) सर्वथा स्पष्ट [दृष्टिगोचर] (भवति) होता है, (यः) जो [मनुष्य] (रेवान् न) धनवान् के समान (अस्मै) उस [शूर] के लिये (सोमम्) सोम [तत्त्व रस] (सुनोति) निचोड़ता है। (मघवा) धनवान् [शूर] (तम्) उस [मनुष्य] को (अरत्नौ) अपनी गोद में (निः) निश्चय करके (दधाति) बैठालता है, और (अननुदिष्टः) विना कहा हुआ [वह शूर] (ब्रह्मद्विषः) वेदविरोधियों को (हन्ति) मारता है ॥४॥
भावार्थभाषाः - राजा बुद्धिमान् राजभक्तों पर सदा दया दृष्टि रक्खे ॥४॥
टिप्पणी: ४−(अनुस्पष्टः) निरन्तरस्पष्टः। दृष्टिगोचरः (भवति) (एषः) स मनुष्यः (अस्य) प्रसिद्धस्य शूरस्य (यः) मनुष्यः (अस्मै) शूराय (रेवान्) धनवान् (न) इव (सुनोति) निष्पादयति (सोमम्) तत्त्वरसम् (निः) निश्चयेन (अरत्नौ) ऋतन्यञ्जि०। उ० ४।२। ऋ गतौ-कत्निच्, रत्निर्बद्धमुष्टिकरः स नास्ति यत्र। विस्तृतकनिष्ठाङ्गुलिमुष्टिकहस्ते। हस्ते। क्रोडे (मघवा) धनवान् (तम्) पुरुषम् (दधाति) स्थापयति (ब्रह्मद्विषः) वेदद्वेष्टॄन् (हन्ति) नाशयति (अननुदिष्टः) अनुदेशमप्राप्तः। अनुक्तः। अप्रार्थितः ॥
