ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥
पद पाठ
तीव्रस्य । अभिऽवयस: । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ॥ इन्द्र । मा । त्वा । यजमानास: । अन्ये । नि । रिरमन् । तुभ्यम् । इमे । सुतास: ॥९६.१॥
अथर्ववेद » काण्ड:20» सूक्त:96» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (अस्य) इस (तीव्रस्य) तीक्ष्ण [शीघ्र बलदायक] (अभिवयसः) प्राप्त अन्न की (पाहि) तू रक्षा कर और (सर्वरथा) सब रथों के योग्य (हरी) अपने दोनों घोड़ों को (इह) यहाँ पर (वि मुञ्च) छोड़ दे। (त्वा) तुझको (यजमानासः) यजमानों के गिरानेवाले [अथवा यजमानों से भिन्न] (अन्ये) दूसरे [विरोधी] लोग (मा नि रीरमन्) न रोक लेवें, (तुभ्यम्) तेरे लिये (इमे) यह (सुतासः) सिद्ध किये हुए [तत्त्व रस] हैं ॥१॥
भावार्थभाषाः - राजा अन्न आदि बलदायक पदार्थों की रक्षा करके प्रजा की बात सुने और वैरियों के फन्दों में न पड़कर श्रेष्ठों के सिद्धान्तों को माने ॥१॥
टिप्पणी: मन्त्र १- ऋग्वेद में है-१०।१६०।१- ॥ १−(तीव्रस्य) तीक्ष्णस्य। क्षिप्रबलकरस्य (अभिवयसः) वयोऽन्नम्-निघ० २।७। अभिगतस्य प्राप्तस्यान्नास्य (अस्य) समीपस्थस्य (पाहि) रक्षां कुरु (सर्वरथा) सर्वरथयोग्यौ (वि मुञ्च) विसृज (हरी) अश्वौ (इह) अत्र (इन्द्र) परमैश्वर्यवन् राजन् (मा) निषेधे (त्वा) त्वाम् (यजमानासः) यजमान+असु क्षेपणे-क्विप्। यजमानानां क्षेप्तारः। यद्वा। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। पञ्चम्यर्थे प्रथमा, असुक् च। यजमानेभ्यः सकाशात् पृथग्भूताः (अन्ये) अपरे। विरोधिनः (नि) नितराम् (रीरमन्) रमु उपरमे-णिचि लुङ्। अडभावो माङ्योगे। उपरमयन्तु। निवर्तयन्तु (तुभ्यम्) त्वदर्थम् (इमे) लभ्यमानाः (सुतासः) संस्कृतास्तत्त्वरसाः ॥
