वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: गृत्समदः छन्द: शक्वरी स्वर: सूक्त-९५

त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म्। अ॑श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । सिन्धून् । अव । असृज: । अधराच: । अहन् । अहिम् ॥ अशत्रु: । इन्द्र । जज्ञिषे । विश्वम् । पुष्यसि । वार्यम् । तम् । त्वा । परि । स्वजामहे । नभन्ताम् । अन्यकेषाम् । ज्याका: । अधि । धन्वऽसु ॥९५.३॥

अथर्ववेद » काण्ड:20» सूक्त:95» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (त्वम्) तूने (अधराचः) नीचे को बहनेवाले (सिन्धून्) नदी-नालों को (अ असृजः) छोड़ दिया है, (अहिम्) पारनेवाले विघ्न को (अहन्) तूने मारा है। (इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] तू (अशत्रुः) निर्वैरी (जज्ञिषे) हो गया है, (विश्वम्) सब (वार्यम्) जल में होनेवाले [अन्न आदि] को (पुष्यसि) तू पुष्ट करता है, (तम्) उस (त्वाम्) तुझसे (परि ष्वजामहे) हम मिलते हैं। (अन्यकेषाम्) दूसरे खोटे लोगों की [मन्त्र २] ॥३॥
भावार्थभाषाः - राजा पहाड़ आदि जल स्थानों से नदी-नाले निकालकर खेती आदि उद्यम को बढ़ावें, जिससे प्रजागण उससे प्रीति करें ॥३॥
टिप्पणी: ३−(त्वम्) (सिन्धून्) स्यन्दनशीलान् जलपूरान्। नदीः कुल्याः (अव असृजः) अवसृष्टवान् निर्गमितवानसि (अधराचः) अधोमुखमञ्चतो गन्तॄन् (अहन्) हतवानसि (अहिम्) आहन्तारं विघ्नम् (अशत्रुः) शत्रुरहितः (इन्द्र) महाप्रतापिन् राजन् (जज्ञिषे) जनेर्लिट्। प्रादुर्बभूविथ (विश्वम्) सर्वम् (पुष्यसि) वर्धयसि (वार्यम्) वार्-यत्। वारि जले भवमुत्पन्नमन्नादिकम् (तम्) तादृशम् (त्वा) त्वाम् (परि) परितः (स्वजामहे) ष्वञ्ज आलिङ्गने। आलिङ्गामः। संगच्छामहे। अन्यत् पूर्ववत् ॥