वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: कृष्णः छन्द: त्रिष्टुप् स्वर: सूक्त-९४

एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम्। प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥

मन्त्र उच्चारण
पद पाठ

आ । इन्द्रऽवाह: । नृऽपतिम् । वज्रऽबाहुम् । उग्रम् । उग्रास: । तविषास: । एनम् ॥ प्रऽत्वक्षसम् । वृषभम् । सत्यऽशुष्मम् । आ । ईम् । अस्मऽत्रा । सधऽमाद: । वहन्तु ॥९४.३॥

अथर्ववेद » काण्ड:20» सूक्त:94» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (नृपतिम्) मनुष्यों के स्वामी, (वज्रबाहुम्) भुजा पर वज्र रखनेवाले, (उग्रम्) प्रचण्ड (प्रत्वक्षसम्) [शत्रुओं के] रेत डालनेवाले, (वृषभम्) सुख की बरसा करनेवाले, (ईम्) प्राप्तियोग्य (एनम्) इस (सत्यशुष्मम्) सच्चे बल रखनेवाले [राजा] को (उग्रासः) प्रचण्ड, (तविषासः) बलवान् (सधमादः) मिलकर उत्सव मनानेवाले, (इन्द्रवाहः) ऐश्वर्यवान् राजा के वाहन [घोड़ा हाथी आदि] (अस्मत्रा) हमारे बीच में (आ आ वहन्तु) अवश्य ही लावें ॥३॥
भावार्थभाषाः - राजा अपने बलवान् सैनिकों के साथ शत्रुओं के मारने के उद्यत होवे ॥३॥
टिप्पणी: ३−(आ) समन्तात् (इन्द्रवाहः) वह प्रापणे-ण्वि इन्द्रस्य वोढारोऽश्वगजादयः (नृपतिम्) (वज्रबाहुम्) हस्ते वज्रयुक्तम् (उग्रम्) प्रचण्डम् (उग्रासः) उग्राः (तविषासः) तवेर्णिद्वा। उ० १।४८। तव वृद्धौ-डिषच्, असुक् च। तविषाः। बलवन्तः (एनम्) (प्रत्वक्षसम्) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। प्र+त्वक्षू तनूकरणे-असि। शत्रूणां प्रकर्षेण तनूकर्तारम् (वृषभम्) सुखस्य वर्षकम् (सत्यशुष्मम्) यथार्थवज्रोपेतम् (आ) समन्तात् (ईम्) प्राप्तव्यम् (अस्मत्रा) अस्मासु (सधमादः) सहमादयन्तः (वहन्तु) प्रापयन्तु ॥