वांछित मन्त्र चुनें

आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिषिचे॒ पिब॑ध्यै। समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥

मन्त्र उच्चारण
पद पाठ

आऽपूर्ण: । अस्य । कलश: । स्वाहा । सेक्ताऽइव । कोशम् । ‍सिसचे । पिबध्यै ॥ सम् । ऊं इति । प्रिया । आ । अवृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमास: । इन्द्रम् ॥८.३॥

अथर्ववेद » काण्ड:20» सूक्त:8» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस [महापुरुष] का (कलशः) कलस (आपूर्णः) मुँहामुँह भरा है, (स्वाहा) सुन्दर वाणी के साथ (सेक्ता इव) भरनेवाले के समान मैंने (कोशम्) बर्तन को (पिबध्यै) पीने के लिये (सिसिचे) भरा है। (प्रियाः) पियारे (प्रदक्षिणित्) दाहिनी ओर को प्राप्त होनेवाले (सोमासः) सोम [महौषधियों के रस] (मदाय) हर्ष के लिये (इन्द्रम् अभि) इन्द्र [परम ऐश्वर्यवाले प्रधान] को (उ) ही (सम्) यथाविधि (आ) सब ओर (अववृत्रन्) वर्तमान हुए हैं ॥३॥
भावार्थभाषाः - विद्वान् सद्वैद्य उत्तम-उत्तम अन्न आदि ओषधियों के रस से आदर करके प्रधान पुरुष को हृष्ट-पुष्ट रक्खें ॥३॥
टिप्पणी: यह मन्त्र ऋग्वेद में है ३।३२।१ ॥ ३−(आपूर्णः) समन्तात् पूरितः (अस्य) इन्द्रस्य (कलशः) कुम्भः (स्वाहा) सुवाण्या (सेक्ता) पूरकः (इव) यथा (कोशम्) पात्रम् (सिसिचे) षिच क्षरणे-लिट्। अहं सिक्तवानस्मि (पिबध्यै) तुमर्थे सेसेनसे०। पा० ३।४।९। पा पाने-शध्यैन्, शित्त्वात् पिबादेशः, नित्त्वादाद्युदात्तः। पानं कर्तुम् (सम्) सम्यक् (उ) अवधारणे (प्रियाः) कमनीयाः (आ) समन्तात् (अववृत्रन्) वृतु वर्तने-लङ्, परस्मैपदम्, शपः श्लुः, रुडागमः। वर्तमाना अभवन् (मदाय) हर्षाय (प्रदक्षिणित्) प्रदक्षिण+इण् गतौ-क्विप्। शकन्ध्वादित्वात् पररूपम्। सुपां सुलुक्०। पा० ७।१।३९। इति जसः सुः। प्रदक्षिणेतः। दक्षिणपार्श्वं गन्तारः (अभि) प्रति (सोमासः) महौषधिरसाः (इन्द्रम्) परमैश्वर्यन्तं प्रधानम् ॥