प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन्। गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥
प्र । ईरय । सूर: । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधा:ऽइव । ग्मन् ॥ गिर: । च । ये । ते । तुविजात । पूर्वी: । नर: । इन्द्र । प्रतिऽशिक्षन्ति । अन्नै: ॥७६.५॥
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य का उपदेश।
