वांछित मन्त्र चुनें

कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्युग्रो वि धा॑व। कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मम्राधो॒ अन्नैः॑ ॥

मन्त्र उच्चारण
पद पाठ

क । ते । मद: । इन्द्र । रन्त्य: । भूत् । दुर: । गिर: । अभि । उग्र: । वि । धाव ॥ कत् । वाह: । अर्वाक् । उप । मा । मनीषा । आ । त्वा । शक्याम् । उपऽमम् । राध: । अन्नै: ॥७६.३॥

अथर्ववेद » काण्ड:20» सूक्त:76» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] (कः) कौनसा (ते) तेरा (मदः) हर्ष (रन्त्यः) [हमारे लिये] आनन्ददायक (भूत्) होवे, (उग्रः) तेजस्वी तू (गिरः) स्तुतियों को (अभि) प्राप्त होकर (दुरः) [हमारे] द्वारों पर (वि धाव) दौड़ता आ। (कत्) कब (वाहः) वाहन [घोड़ा रथ आदि] (मनीषा) बुद्धि के साथ (मा उप) मेरे समीप (अर्वाक्) सामने [होवे], और (उपमम्) समीपस्थ (त्वा) तुझको (आ) प्राप्त होकर (अन्नैः) अन्नों के सहित (राधः) धन (शक्याम्) पाने को समर्थ हो जाऊँ ॥३॥
भावार्थभाषाः - प्रजागण पुरुषार्थी धार्मिक राजा का आदरपूर्वक निमन्त्रण करके उन्नति के उपायों का विचार करें ॥३॥
टिप्पणी: ३−(कः) (ते) तव (मदः) हर्षः (इन्द्र) महाप्रतापिन् राजन् (रन्त्यः) वसेस्तिः। उ० ४।१८०। रमु क्रीडायाम्-तिप्रत्ययः। हितार्थे यत्। रन्तये रमणाय हितः। रमयिता। प्रीतिकरः (भूत्) भवेत् (दुरः) अस्माकं द्वाराणि (गिरः) स्तुतीः (अभि) अभिगत्य। प्राप्य (उग्रः) तेजस्वी (वि) विविधम् (धाव) धावु गतिशुद्ध्योः। शीघ्रमागच्छ (कत्) कदा (वाहः) वाहकः। अश्वरथादिकः (अर्वाक्) अभिमुखः (उप) उपेत्य (मा) माम् (मनीषा) प्रज्ञया (आ) आगत्य। प्राप्य (त्वा) त्वाम् (शक्याम्) प्राप्तुं शक्नुयाम् (उपमम्) समीपस्थम् (राधः) धनम् (अन्नैः) अदनीयपदार्थैः ॥