वांछित मन्त्र चुनें

वि॒दुष्टे॑ अ॒स्य वी॒र्यस्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः। शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते। म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥

मन्त्र उच्चारण
पद पाठ

विदु: । ते । अस्य । वीर्यस्य । पूरव: । पुर: । यत् । इन्द्र । शारदी: । अवऽअतिर: । ससहान: । अवऽअतिर: ॥ ससहान: । अवऽअतिर: ॥ शास: । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवस: । पते ॥ महीम् । अमुष्णा: । पृथिवीम् । इमा: । अप: । मन्दसान: । इमा: । अप: ॥७५.२॥

अथर्ववेद » काण्ड:20» सूक्त:75» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर की उपासना का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (पूरवः) मनुष्य (ते) तेरे (अस्य) उस (वीर्यस्य) सामर्थ्य का (विदुः) ज्ञान रखते हैं, (यत्) जिस [सामर्थ्य] से (सासहानः) जीतते हुए तूने (शारदीः) वर्ष भर में उत्पन्न होनेवाली (पुरः) पालनसामग्रियों को (अवातिरः) उतारा है, (अवातिरः) उतारा है, (शवसःपते) हे बल के स्वामी (इन्द्र) इन्द्र ! [परमेश्वर] (तम्) उस (अयज्युम्) यज्ञ के न करनेवाले (मर्त्यम्) मनुष्य को (शासः) तूने शासन में किया है, और (मन्दसानः) आनन्द करते हुए तूने (महीम्) बड़ी (पृथिवीम्) पृथिवी से (इमाः) इन [यज्ञ न करनेवाली] (अपः) प्रजाओं को, (इमाः) इन (अपः) प्रजाओं को (अमुष्णाः) लूटा है ॥२॥
भावार्थभाषाः - परमात्मा अपने सामर्थ्य से अनन्त पदार्थ उत्पन्न करके सबका सदा पालन करता है, और अनाज्ञाकारी दुष्टों को अवश्य दण्ड देता है ॥२॥
टिप्पणी: २−(विदुः) विदन्ति। ज्ञानं कुर्वन्ति (ते) तव (अस्य) प्रसिद्धस्य (वीर्यस्य) सामर्थ्यस्य (पूरवः) भृमृशीङ्०। उ० १।७। पूरी आप्यायने-उप्रत्ययः। पूरवः पूरयितव्या मनुष्याः-निरु० ७।२३। मनुष्याः-निघ० २।३। (पुरः) पॄ पालनपूरणयोः-क्विप्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्वम्। पालनसामग्रीः (यत्) येन सामर्थ्येन (इन्द्र) परमैश्वर्यवन् परमात्मन् (शारदीः) शरद्-अण्, ङीप्। शरदि संवत्सरे भवाः (अवातिरः) अवतारितवानसि। दत्तवानसि (सासहानः) सहतेर्यङ्लुगन्ताच् चानश्। अभिभवन्। विजयन् (अवातिरः) दत्तवानसि (शासः) शासु अनुशिष्टौ-लुङ्, छान्दसं रूपम्। शासितवानसि। निगृहीतवानसि (तम्) (इन्द्र) (मर्त्यम्) मनुष्यम् (अयज्युम्) यजिमनिशुन्धि०। उ० ३।२०। यजेः-युच्। अयष्टारम्। यज्ञविघातकम् (शवसः) बलस्य (पते) स्वामिन् (महीम्) महतीम् (अमुष्णाः) मुष स्तेये-लङ्। अपहृतवानसि। दुह्याच्पच्दण्डरुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्। कारिका, पा० १।४।१। इति मुष्णातेर्द्विकर्मकत्वात् पृथिवीमित्यस्य, अप इति अस्य पदस्य च कर्मकत्वम् (पृथिवीम्) भूमिम्। भूमेः सकाशात् (इमाः) दृश्यमानाः (अपः) प्रजाः (मन्दसानः) हृष्यन् त्वम् (इमाः) (अपः) प्रजाः ॥