वांछित मन्त्र चुनें

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्व: सनि॒ष्यवः॒ पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्च॒तय॑न्त आ॒यव॒ स्तोमे॑भिरिन्द्रमा॒यवः॑ ॥

मन्त्र उच्चारण
पद पाठ

विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यव: । पृथक् । स्व१रिति स्व: । सनिष्यव: । पृथक् ॥ तम् । त्वा । नावम् । न । पर्वणिम् । शूषस्य । धुरि । धीमहि ॥ इन्द्रम् । न । यज्ञै: । चितयन्त: । आयव: । स्तोमेभि: । इन्द्रम् । आयव: ॥७२.१॥

अथर्ववेद » काण्ड:20» सूक्त:72» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर की उपासना का उपदेश।

पदार्थान्वयभाषाः - [हे परमेश्वर !] (विश्वेषु) सब (हि) ही (सवनेषु) ऐश्वर्ययुक्त पदार्थों में (समानम्) एकरस व्यापक (एकम्) एक, (स्वः) सुखस्वरूप (त्वा) तुझको (वृषमण्यवः) बलवान् के समान तेजवाले, और (सनिष्यवः) देने योग्य धन को चाहनेवाले पुरुष (पृथक् पृथक्) अलग-अलग (तुञ्जते) ग्रहण करते हैं। (नावम् न) नाव के समान (पर्षणिम्) पार लगानेवाले (तम्) उस (त्वा) तुझ (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा], (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (शूषस्य) बल की (धुरि) धुरी [धारणशक्ति] में (यज्ञैः) यज्ञों [श्रेष्ठ व्यवहारों] से और (स्तोमेभिः) प्रशंसनीय गुणों से (चितयन्तः) चिन्तवन करते हुए (आयवः) पुरुषार्थी (आयवः न) मनुष्यों के समान (धीमहि) हम धारण करें ॥१॥
भावार्थभाषाः - मनुष्य विद्वान् पुरुषार्थी लोगों के समान आनन्दस्वरूप सर्वशक्तिमान् परमेश्वर का सदा स्मरण करके अपना बल बढ़ाने के लिये प्रयत्न करें ॥१॥
टिप्पणी: यह तृच ऋग्वेद में है-१।१३१।२, ३, ६ ॥ १−(विश्वेषु) सर्वेषु (हि) निश्चयेन (त्वा) त्वाम् (सवनेषु) ऐश्वर्ययुक्तेषु पदार्थेषु (तुञ्जते) तुजि हिंसाबलादाननिकेतनेषु-लट्। गृह्णन्ति समानम् एकरसव्यापकम् (एकम्) अद्वितीयम् (वृषमण्यवः) यजिमनिशुन्धि०। उ० ३।२०। मन ज्ञाने दीप्तौ च-युच्। मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणो वा-निरु० १०।२९। वृषस्य बलवतः पुरुषस्य तेज इव तेजो येषां ते (पृथक्) भिन्नप्रकारेण (स्वः) सुखस्वरूपम् (सनिष्यवः) सर्वधातुभ्य इन्। उ० ४।११८। षणु दाने-इन्। सुप आत्मनः क्यच्। पा० ३।१।८। सनि-क्यच्। सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ। वा० पा० ७।१। सुगागमः। क्याच्छन्दसि। पा० ३।२।१७०। उप्रत्ययः। दातव्यधनमिच्छवः (पृथक्) (तम्) तादृशम् (त्वा) त्वाम् (नावम्) नौकाम् (न) इव (पर्षणिम्) अर्त्तिसृधृ०। उ० २।१०२। पॄ पालनपूरणयोः-अनिप्रत्ययः षुगागमः। पारयितारम् (शूषस्य) बलस्य (धुरि) धृञ् धारणे-क्विप्। बहुलं छन्दसि। पा० ७।१।१०३। इति उरादेशः। यानमुखे। धारणशक्तौ (धीमहि) दधातेः-लिङ्। धरेम (इन्द्रम्) परमेश्वरम् (न) इव (यज्ञैः) श्रेष्ठव्यवहारैः (चितयन्तः) चिती संज्ञाने-णिच्, शतृ। गुणाभावः। चेतयन्तः। स्मरन्तः (आयवः) छन्दसीणः। उ० १।२। इण् गतौ-उण्। गतिमन्तः पुरुषार्थिनः (स्तोमेभिः) प्रशंसनीयगुणैः (इन्द्रम्) परमेश्वरम् (आयवः) मनुष्याः निघ० २।३ ॥