वांछित मन्त्र चुनें

एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑। चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥

मन्त्र उच्चारण
पद पाठ

आ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥७१.८॥

अथर्ववेद » काण्ड:20» सूक्त:71» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वानो !] (सुते) उत्पन्न जगत् में (मन्दिम्) आनन्द बढ़ानेवाले, (चक्रिम्) कार्य सिद्ध करनेवाले (एनम्) इस (ईम्) प्राप्तियोग्य बोध को (मन्दिने) गतिशील, (विश्वानि) सब कर्मों के (चक्रये) कर चुकनेवाले (इन्द्राय) इन्द्र [परम ऐश्वर्यवाले मनुष्य के लिये] (आ) सब प्रकार (सृजत) उत्पन्न करो ॥८॥
भावार्थभाषाः - विद्वान् लोग शिल्पविद्या से लेकर मोक्षपर्यन्त ज्ञान का उपदेश करके सब मनुष्यों को कर्मवीर बनावें ॥८॥
टिप्पणी: ८−(आ) समन्तात् (ईम्) प्राप्तव्यं बोधम् (एनम्) प्रसिद्धम् (सृजत) उत्पादयत। सम्पादयत (सुते) उत्पन्ने जगति (मन्दिम्) खनिकष्यञ्ज्यसिवसि०-उ० ४।१४०। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-इप्रत्ययः। आनन्दयितारम् (इन्द्राय) परमैश्वर्यवते मनुष्याय (मन्दिने) अ० २०।१७।४। मोदयित्रे (चक्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। डुकृञ् करणे-किन्प्रत्ययः। कार्यकर्तारम् (विश्वानि) सर्वाणि कर्माणि अस्य चक्रये इति कृदन्तेन योगेऽपि। न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। किकिनौ लिट् चेति किकिनोर्लिड्वद्भावेन षष्ठीनिषेधे द्वितीया (चक्रये) करोतेः किन् पूर्ववत्। कृतवते ॥