वांछित मन्त्र चुनें

अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑। सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥

मन्त्र उच्चारण
पद पाठ

अत: । परिऽज्मन् । आ । गहि । दिव: । वा । रोचनात् । अधि ॥ सम् । अस्मिन् । ऋञ्जते । गिर: ॥७०.५॥

अथर्ववेद » काण्ड:20» सूक्त:70» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

१-९ राजा और प्रजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (अतः) इसलिये, (परिज्मन्) हे सर्वत्र गतिवाले शूर ! (दिवः) विजय की इच्छा से (वा) और (रोचनात्) प्रीति भाव से (अधि) ऊपर (आ गहि) आ, (अस्मिन्) इस [वचन] में (गिरः) हमारी स्तुतियाँ (सम्) ठीक-ठीक (ऋञ्जते) सिद्ध होती हैं ॥॥
भावार्थभाषाः - पूर्वोक्त प्रकार से आवश्यकता जताकर श्रेष्ठ प्रजागण धीर-वीर पुरुष को उत्तम कर्मों में प्रवृत्त करें ॥॥
टिप्पणी: −(अतः) अस्मात् पूर्वोक्तात् कारणात् (परिज्मन्) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७। परि+अज गतिक्षेपणयोः-मनिन्, अकारलोपः। हे सर्वतो गतिशील (आ गहि) आगच्छ (दिवः) दिवु विजिगीषायाम्-क्विप्। विजयेच्छायाः सकाशात् (वा) चार्थे (रोचनात्) रुच दीप्तावभिप्रीतौ च युच्। प्रीतिभावात् (अधि) उपरि (सम्) सम्यक् (अस्मिन्) वचसि (ऋञ्जते) ऋञ्जतिः प्रसाधनकर्मा-निरु० ६।२१। प्रकर्षेण सिध्यन्ति (गिरः) स्तुतयः-निरु० १।१० ॥