वांछित मन्त्र चुनें

स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥

मन्त्र उच्चारण
पद पाठ

स: । न: । वषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुत: ॥७०.१२॥

अथर्ववेद » काण्ड:20» सूक्त:70» पर्यायः:0» मन्त्र:12


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

१०-२० परमेश्वर की उपासना का उपदेश।

पदार्थान्वयभाषाः - (वृषन्) हे सुख बरसानेवाले ! (सत्रादावन्) हे सत्य ज्ञान देनेवाले परमेश्वर ! (अप्रतिष्कुतः) बे-रोक गतिवाला (सः) सो तू (नः) हमारे लिये, (अस्मभ्यम्) हमार लिये (अमुम्) उस (चरुम्) मेघ के समान ज्ञान को (अप वृधि) खोल दे ॥१२॥
भावार्थभाषाः - मनुष्य ईश्वर से मेघसमान उपकारी सत्यज्ञान को प्राप्त करके सुखी होवे ॥१२॥
टिप्पणी: यह मन्त्र सामवेद में है-उ० ८।१।२ ॥ १२−(सः) परमेश्वरः (नः) अस्मभ्यम् (वृषन्) हे सुखवर्षक (अमुम्) प्रसिद्धम् (चरुम्) भृमृशीङ्तॄचरि०। उ० १।७। चर गतिभक्षणयोः-उप्रत्ययः। चरुर्मेघनाम निघ० १।१०। मेघमिवोपकारकं ज्ञानम् (सत्रादावन्) सत्रा सत्यनाम-निघ० ३।१०। अतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७२। ददातेर्वनिप्। हे सत्यज्ञानस्य दातः (अप वृधि) वृञ् आच्छादने-लोट्। बहुलं छन्दसि। पा० २।४।७३। श्नोर्लुक्, श्रुशॄणुपृकृवृभ्यश्छन्दसि। पा० ९।४।१०२। इति हेर्धिः। उत्पाटय। उद्घाटय (अस्मभ्यम्) (अप्रतिष्कुतः) अथ० २०।४१।१। अप्रतिगतः ॥