वांछित मन्त्र चुनें

अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म्। यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥

मन्त्र उच्चारण
पद पाठ

अक्षितऽऊति: । सनेत् । इमम् । वाजम् । इन्द्र: । महस्रिणम् ॥ यस्मिन् । विश्वानि । पौंस्या ॥६९.७॥

अथर्ववेद » काण्ड:20» सूक्त:69» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

१-८ पराक्रमी मनुष्य के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अक्षितोतिः) अक्षय रक्षा वा ज्ञानवाला (इन्द्रः) इन्द्र [महाप्रतापी मनुष्य] (इमम्) इस (सहस्रिणम्) सहस्रों सुखवाले (वाजम्) ज्ञान का (सनेत्) सेवन करें, (यस्मिन्) जिसमें (विश्वानि) सब (पौंस्या) मनुष्यकर्म [वा बल] हैं ॥७॥
भावार्थभाषाः - मनुष्य प्रतापी होकर सर्वोपकारी कार्य करके सुखी होवे ॥७॥
टिप्पणी: ७−(अक्षितोतिः) अक्षीणा वर्धमाना ऊती रक्षा ज्ञानं वा यस्य सः (सनेत्) षण संभक्तौ-विधिलिङ्। सेवेत (इमम्) वक्ष्यमाणम् (वाजम्) विज्ञानम् (इन्द्रः) महाप्रतापी मनुष्यः (सहस्रिणम्) अ० २०।९।२। असंख्यसुखयुक्तम् (यस्मिन्) ज्ञाने (विश्वानि) सर्वाणि (पौंस्या) अ० २०।६७।२। मनुष्यकर्माणि। बलानि ॥