वांछित मन्त्र चुनें

तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो। धना॑नामिन्द्र सा॒तये॑ ॥

मन्त्र उच्चारण
पद पाठ

तम् । त्वा । वाजेषु । वाजिनम् । वाजयाम: । शतक्रतो इति शतऽक्रतो ॥ धनानाम् । इन्द्र । सातये ॥६८.९॥

अथर्ववेद » काण्ड:20» सूक्त:68» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों [असंख्य] वस्तुओं में बुद्धिवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले जगदीश्वर] (वाजेषु) सङ्ग्रामों के बीच (वाजिनम्) महाबलवान् (तम्) उस (त्वा) तुझको (धनानाम्) धनों के (सातये) भोगने के लिये (वाजयामः) हम प्राप्त होते हैं ॥९॥
भावार्थभाषाः - मनुष्य परमेश्वर की आज्ञा पालन से जितेन्द्रिय बलवान् होकर सब विघ्न हटाकर सुख भोगें ॥९॥
टिप्पणी: ९−(तम्) तादृशम् (त्वा) त्वाम् (वाजेषु) सङ्ग्रामेषु (वाजिनम्) महाबलवन्तम् (वाजयामः) वज गतौ, चुरादिः। प्राप्नुमः (शतक्रतो) शतेष्वसंख्यातेषु वस्तुषु क्रतुः प्रज्ञा यस्य तत्सम्बुद्धौ (धनानाम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (सातये) सेवनाय। लाभाय ॥