वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: गृत्समदः छन्द: जगती स्वर: सूक्त-६७

ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

मन्त्र उच्चारण
पद पाठ

एष: । स्य । ते । तन्व: । नृम्णऽवर्धन: । सह:। ओज: । प्रदिवि । बाह्वो: । हित: ॥ तुभ्यम् । सुत: । मघऽवन् । तुभ्यम् । आऽभृत: । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥६७.६॥

अथर्ववेद » काण्ड:20» सूक्त:67» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (एषः स्यः) यही (नृम्णवर्धनः) धन का बढ़ानेवाला [तत्त्वरस] (ते) तेरे (तन्वः) शरीर का (सहः) बल और (ओजः) पराक्रम होकर (प्रदिवि) उत्तम व्यवहार के बीच (बाह्वोः) तेरी दोनों भुजाओं पर (हितः) धरा गया है। (मघवन्) हे बड़े धनी ! (तुभ्यम्) तेरे लिये (सुतः) सिद्ध किया हुआ [तत्त्वरस] (तुभ्यम्) तुझको (आभृतः) धारण किया गया है, (त्वम्) तू (ब्राह्मणात्) ब्रह्म [परमेश्वर] के ज्ञान से (आ) भले प्रकार (तृपत्) तृप्त होता हुआ (अस्य) इस [तत्त्वरस] का (पिब) पान कर ॥६॥
भावार्थभाषाः - विद्वान् लोग पराक्रमी व्यवहारकुशल मनुष्य को परमेश्वरीय ज्ञान का उपदेश करके धन आदि की बढ़ती के लिये उत्साही करें ॥६॥
टिप्पणी: ६−(एषः स्यः) स एव (ते) तव (तन्वः) शरीरस्य (नृम्णवर्धनः) अ० ४।२४।३। धनवर्धकः (सहः) बलम् (ओजः) पराक्रमः (प्रदिवि) दिवु व्यवहारे-क्विप्। उत्तमव्यवहारे (बाह्वोः) भुजयोः (हितः) धृतः (तुभ्यम्) (सुतः) संस्कृतस्तत्त्वरसः (मघवन्) हे धनवन् (तुभ्यम्) (आभृतः) समन्ताद् धारितः (त्वम्) (अस्य) तत्त्वरसस्य (ब्राह्मणात्) ब्रह्मणः परमेश्वरस्य ज्ञानात् (आ) समन्तात् (तृपत्) तृप्यन् सन् (पिब) पानं कुरु ॥