वांछित मन्त्र चुनें
देवता: मरुद्गणः ऋषि: गृत्समदः छन्द: जगती स्वर: सूक्त-६७

य॒ज्ञैः संमि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्यामं॑ छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त। आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥

मन्त्र उच्चारण
पद पाठ

यज्ञै: । सम्ऽमिश्ला: । पृषतीभि: । ऋष्टिऽभि: । यामन् । शुभ्रास: । अञ्जिषु । प्रिया: । उत ॥ आऽसद्य । बर्हि: । भरतस्य । सूनव: । पोत्रात् । आ । सोमम् । पिबत । दिव: । नर: ॥६७.४॥

अथर्ववेद » काण्ड:20» सूक्त:67» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (भरतस्य सूनवः) हे धारण करनेवाले पुरुष के पुत्रो ! (दिवः) हे विजय चाहनेवाले (नरः) नरो ! [नेता लोगो] (यज्ञैः) पूजनीय व्यवहारों से, (पृषतीभिः) सेचन क्रियाओं से और (ऋष्टिभिः) दो धारा तलवारों से (संमिश्लाः) अच्छे प्रकार मिले हुए [सजे हुए], (उत) और (यामन्) प्राप्त हुए समय पर (अञ्जिषु) कामनायोग्य कर्मों में (शुभ्रासः) शोभायमान (प्रियाः) प्यारे तुम (बर्हिः) उत्तम आसन (आसद्य) पा कर (पोत्रात्) पवित्र आचरण से (सोमम्) सोम [तत्त्वरस] को (आ) भले प्रकार (पिबत) पीओ ॥४॥
भावार्थभाषाः - मनुष्यों को योग्य है कि उत्तम घरानों में उत्पन्न होकर अपने पराक्रमयुक्त पवित्र कर्मों से तत्त्व को ग्रहण करके आनन्द पावें ॥४॥
टिप्पणी: मन्त्र ४-६ ऋग्वेद में है-२।३६।२, ४, ॥ ४−(यज्ञैः) पूजनीयव्यवहारैः (संमिश्लाः) अ० २०।३८।। मिश्रयतेः-घञ् भावे। सर्वतो मिश्रिताः सज्जीकृताः (पृषतीभिः) अ० १३।१।२१। पृषु सेचने-अति, ङीष्। सेचनक्रियाभिः (ऋष्टिभिः) अ० ८।३।७। ऋषी गतौ-क्तिन्। उभयतो धारयुक्तैः खड्गैः (यामन्) यामनि। प्राप्ते काले (शुभ्रासः) शुभ्राः शोभमानाः (अञ्जिषु) खनिकष्यञ्ज्यसि०। उ० ४।१४०। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-इप्रत्ययः। कमनीयेषु कर्मसु (प्रियाः) प्रीतिकराः (उत) अपि (आसद्य) प्राप्य (बर्हिः) उत्तमासनम् (भरतस्य) भृमृदृशियजि०। उ० ३।११०। डुभृञ् धारणपोषणयोः-अतच्। धारकस्य पुरुषस्य (सूतवः) पुत्राः (पोत्रात्) अ० २०।२।१। पवित्रव्यवहारात् (आ) समन्तात् (सोमम्) तत्त्वरसम् (पिबत) पानं कुरुत। अनुभवत (दिवः) दिवु विजिगीषायाम्-क्विप्। हे जिगीषवः (नरः) नेतारः पुरुषाः ॥