अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम्। य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा। घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒ जुह्वा॑नस्य स॒र्पिषः॑ ॥
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहस: । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ॥ य: । ऊर्ध्वया । सुऽअध्वर: । देव: । देवाच्या । कृपा ॥ घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिष: ॥६७.३॥
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य के कर्तव्य का उपदेश।
