वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: विश्वमनाः छन्द: उष्णिक् स्वर: सूक्त-६४

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः। ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ॥

मन्त्र उच्चारण
पद पाठ

आ । इत् । ऊं इति । मध्व: । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धस: ॥ एव । हि । वीर: । स्तवते । सदाऽवृध: ॥६४.४॥

अथर्ववेद » काण्ड:20» सूक्त:64» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (अध्वर्यो) हे हिंसा न चाहनेवाले पुरुष ! (मध्वः) ज्ञान [मधुविद्या] के (वा) और (अन्धसः) अन्न के (मदिन्तरम्) अधिक आनन्द देनेवाले रस को (इत् उ) अवश्य ही (आ) सब ओर (सिञ्च) सींच, (सदावृधः) सदा बढ़ानेवाला (वीरः) वीर (एव) इस प्रकार (हि) ही (स्तवते) स्तुति किया जाता है ॥४॥
भावार्थभाषाः - विद्वान् पुरुष हिंसा कर्म छोड़कर विद्या और अन्न आदि की प्राप्ति के तत्त्वसिद्धान्तों का प्रकाश करके वीरों के समान कीर्ति पावे ॥४॥
टिप्पणी: मन्त्र ४-६ ऋग्वेद में हैं-८।२४।१६-१८, कुछ भेद से सामवेद-उ० ८।२। तृच १०, मन्त्र ४-साम०-पू० ४।१०। ॥ ४−(आ) समन्तात् (इत्) अवश्यम् (उ) अवधारणे (मध्वः) मधुनः। निश्चितज्ञानस्य (मदिन्तरम्) नाद् घस्य। पा० ८।२।१७। इति तरपो नुडागमः। मादयितृतरं रसम् (सिञ्च) सिक्तं कुरु (वा) चार्थे (अध्वर्यो) अ० १८।४।१। हे अहिंसामिच्छुक (एव) एवम् (हि) निश्चयेन (वीरः) शूरः (स्तवते) स्तूयते (सदावृधः) सर्वदा वर्धयिता ॥