वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: नोधाः छन्द: त्रिष्टुप् स्वर: सूक्त-३५

अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात्। स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥

मन्त्र उच्चारण
पद पाठ

अस्य । इत् । एव । प्र । रिरिचे । महिऽत्वम् । दिव: । पृथिव्या: । परि । अन्तरिक्षात् ॥ स्वऽराट् । इन्द्र: । दमे । आ । विश्वऽगूर्त: । सुऽअरि: । अमत्र: । ववक्षे । रणाय ॥३५.९॥

अथर्ववेद » काण्ड:20» सूक्त:35» पर्यायः:0» मन्त्र:9


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभापति के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस [परमेश्वर] का (इत्) ही (महित्वम्) महत्त्व (एव) निश्चय करके (दिवः) सूर्य से, (पृथिव्याः) पृथिवी से और (अन्तरिक्षात्) आकाश से (परि) सब प्रकार (प्र रिरिचे) अधिक बड़ा है। (स्वराट्) स्वयं राजा, (विश्वगूर्तः) सबको उद्यम में लगानेवाला, (स्वरिः) बड़ा प्रेरक, (अमत्रः) ज्ञानवान् (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमात्मा] (दमे) शासन के बीच (रणाय) रण मिटाने के लिये (आ ववक्षे) क्रोधित हुआ है ॥९॥
भावार्थभाषाः - जैसे परमात्मा सबसे बड़ा होकर सूर्य आदि सब बड़ों से बड़ों को शासन में रखता है, वैसे ही सबसे अधिक गुणी पुरुष प्रधान होकर प्रजा का पालन करे ॥९॥
टिप्पणी: ९−(अस्य) सर्वत्र व्यापकस्य परमेश्वरस्य (इत्) एव (एव) निश्चयेन (प्र) प्रकर्षेण (रिरिचे) रिचिर् विरेचने-लिट्। अधिकं बभूव (महित्वम्) महत्त्वम् (दिवः) सूर्यलोकात् (पृथिव्याः) भूलोकात् (परि) सर्वतः (अन्तरिक्षात्) आकाशात् (स्वराट्) राजृ दीप्तौ ऐश्वर्ये च-क्विप्। स्वयं राजा शासकः (इन्द्रः) परमैश्वर्यवान् परमात्मा (दमे) दमु उपशमे-घञ्। शासने (विश्वगूर्तः) गूरी उद्यमे-क्त। नसत्तनिषत्ताऽनुत्तप्रतूर्त्तसूर्तगूर्तानिच्छन्दसि। पा०८।२।६१। निष्ठानत्त्वाभावः। विश्वं सर्वं जगद् गूर्णम् उद्यतम् उद्यमे कृतं येन सः (स्वरिः) अच इः। उ०४।१३९। सु+ऋ गतिप्रापणयोः-इप्रत्ययः। सुप्रेरकः (अमत्रः) अमिनक्षियजि०। उ०३।१०। अम गत्यादिषु अत्रन्। ज्ञानवान् (ववक्षे) वक्ष रोषसंघातयोः-लिट्, आत्मनेपदं छान्दसम्। रोषं चकार (रणाय) रणं युद्धं नाशयितुम् ॥