वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: नोधाः छन्द: त्रिष्टुप् स्वर: सूक्त-३५

अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑। मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥

मन्त्र उच्चारण
पद पाठ

अस्य । इत् । ऊं इति । मातु: । सवनेषु । सद्य: । मह: । पितुम् । पपिऽवान् । चारु । अन्ना ॥ मुषायत् । विष्णु: । पचतम् । सहीयान् । विध्यत् । वराहम् । तिर: । अद्रिम् । अस्ता ॥३५.७॥

अथर्ववेद » काण्ड:20» सूक्त:35» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभापति के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस [जगत्] के (इत्) ही (उ) विचारपूर्वक (महः) बड़े (मातुः) निर्माता [बनानेवाले परमेश्वर] के (सवनेषु) ऐश्वर्यों में (सद्यः) तुरन्त (चारु) सुन्दर (पितुम्) पीने योग्य रस को और (अन्ना) अन्नों को (पपिवान्) खाने-पीने वाला, (पचतम्) परिपक्व [वैरी के अन्न वा धन] को (मुषायत्) लूटता हुआ, (विष्णुः) विद्याओं में व्यापक, (सहीयान्) विजयी, (अद्रिम्) वज्र का (अस्ता) चलानेवाला [सेनापति] (वराहम्) वराह [सूअर के समान अच्छे पदार्थ नाश करनेवाले शत्रु] को (तिरः) आर-पार (विध्यत्) छेदता है ॥७॥
भावार्थभाषाः - जो परमेश्वर के बनाये ऐश्वर्ययुक्त पदार्थों का ठीक-ठीक उपयोग करके जङ्गली सूअर के समान उपद्रवी शत्रुओं का नाश करे, वही पुरुष सभापति सेनापति होवे ॥७॥
टिप्पणी: ७−(अस्य) संसारस्य (इत्) एव (उ) वितर्के (मातुः) निर्मातुः। रचकस्य परमेश्वरस्य (सवनेषु) ऐश्वर्येषु (सद्यः) समाने दिने। इदानीम् (महः) मह पूजायाम्-विट्। महतः। पूजनीयस्य (पितुम्) अ०४।६।३। पा पाने रक्षणे वा-तुप्रत्ययो धातोः पिभावः। पितुरित्यन्ननाम पातेर्वा पिबतेर्वा प्यायतेर्वा-निरु०९।२४। पानीयं रसम् (पपिवान्) अ०७।९७।३। पिबतेः क्वसु। पीतवान्। खादितवान् (चारु) विभक्तेर्लुक्। सुन्दरम् (अन्ना) अन्नानि (मुषायत्) मुष स्तेये-घञर्थे कविधानम्। सुप आत्मनः क्यच्। पा०३।१”।८। मुष-क्यच्। नच्छन्दस्यपुत्रस्य। पा०७।४।३। ईत्ववद् दीर्घस्यापि प्रतिषेधे छान्दसो दीर्घः। अस्मात् क्यजन्तात् शतृ, नुमभावः। आत्मनः स्तेयमिच्छन् अपहरन् (विष्णुः) विद्यासु व्यापनशीलः (पचतम्) भृमृदृशियजिपर्विपच्यमि०। उ०३।११०। पचतेः-अतच्। शत्रूणां परिपक्वमन्नं धनं वा (सहीयान्) सोढृ-ईयसुन्। अतिशयेन अभिभविता, विजेता (विध्यत्) विध्यति। ताडयति (वराहम्) वृञ् वरणे-अप् अन्येष्वपि दृश्यते। पा०३।२।१०१। वर+आङ्+हृञ् नाशने वा हन हिंसागत्योः-डप्रत्ययः। वरस्य उत्कृष्टस्य पदार्थस्य आहर्तारम् आहन्तारं नाशयितारं शूकरमिव शत्रुम्। वराहो मेघो भवति वराहार… अयमपीतरो वराह एतस्मादेव। बृंहति मूलानि, वरं वरं मूलं बृंहतीति वा, अङ्गिरसोऽपि वाराहा उच्यन्ते-निरु०४। (तिरः) तिरस्कृत्य (अद्रिम्) वज्रम् (अस्ता) असु क्षेपणे-तृन्, इडभावः। न लोकाव्ययनिष्ठा०। पा०२।३।६९। षष्ठीप्रतिषेधः। प्रक्षेप्ता ॥