अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं रणा॑य। वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥
पद पाठ
अस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वप:ऽतमम् । स्वर्यम् । रणाय ॥ वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशान: । तुजता । कियेधा: ॥३५.६॥
अथर्ववेद » काण्ड:20» सूक्त:35» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सभापति के लक्षणों का उपदेश।
पदार्थान्वयभाषाः - (अस्मै) इस [संसार] के हित के लिये (इत्) ही (उ) विचारपूर्वक (त्वष्टा) सूक्ष्म करनेवाले [सूक्ष्मदर्शी विश्वकर्मा सभापति] ने (स्वपस्तमम्) अत्यन्त सुन्दर रीति से काम सिद्ध करनेवाला, (स्वर्यम्) सुख देनेवाला (वज्रम्) वज्र [बिजुली आदि शस्त्र] (रणाय) रण जीतने को (तक्षत्) तीक्ष्ण किया है। (तुजता येन) जिस काटनेवाले [वज्र] से (वृत्रस्य) वैरी के (मर्म) मर्म [जीवन स्थान] को (चित्) ही (तुजन्) छेद कर (ईशानः) ऐश्वर्यवान्, (कियेधाः) कितने [अर्थात् बड़े बल] के धारण करनेवाले [उस सभापति] ने (विदत्) पाया है ॥६॥
भावार्थभाषाः - सभापति राजा तीक्ष्ण-तीक्ष्ण अस्त्र-शस्त्रों से शत्रुओं को दण्ड देकर प्रजा को आनन्द देवें ॥६॥
टिप्पणी: इस मन्त्र का मिलान करो-अ०२।।६॥६−(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (त्वष्टा) अ०२।।६। त्वक्षू तनूकरणे-तृन्। व्यवहाराणां तनूकर्ता सूक्ष्मदर्शी विश्वकर्मा (तक्षत्) तक्षू तनूकरणे-लङ्। अतक्षत्। तीक्ष्णमकरोत् (वज्रम्) विद्युदादिशस्त्रसमूहम् (स्वपस्तमम्) अपः कर्मनाम-निघ०२।१। सुष्ठु अपांसि कर्माणि यस्मात् तम् (स्वर्यम्) अ०२।।६। स्वः-यत्। सुखे साधुम् (रणाय) रणं युद्धं जेतुम् (वृत्रस्य) शत्रोः (चित्) एव (विदत्) विद्लृ लाभे-लुङ्। अविदत्। लब्धवान् (येन) वज्रेण (मर्म) अ०।८।९। सन्धिस्थानं जीवस्थानम् (तुजन्) तुज हिंसायाम्-शतृ, शपि प्राप्ते छान्दसः शः। हिंसन् (ईशानः) ऐश्वर्यवान् (तुजता) छेदकेन (कियेधाः) कियत्+दधातेर्विच्, कियतः किये भावः। कियेधाः कियद्धा इति वा क्रममाणधा इति वा-निरु०६।२०। कियतो महतो बलस्य धारकः ॥
