अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे। वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥
पद पाठ
अस्मै । इत् । ऊं इति । सप्तिम्ऽइव । अवस्या । इन्द्राय । अर्कम् । जुह्वा । सम् । अञ्जे ॥ वीरम् । दानऽओकसम् । वन्दध्यै । पुराम् । गूर्तऽश्रवसम् । दर्माणम् ॥३५.५॥
अथर्ववेद » काण्ड:20» सूक्त:35» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सभापति के लक्षणों का उपदेश।
पदार्थान्वयभाषाः - (अस्मै) इस [संसार] के हिते के लिये (इत्) ही (उ) विचारपूर्वक (इन्द्राय) ऐश्वर्य के अर्थ (श्रवस्या) कीर्ति की इच्छा से (जुह्वा) देने-लेने वाली क्रिया के साथ (सप्तिम् इव) जैसे फुरतीले घोड़े को [वैसे] (अर्कम्) पूजनीय (वीरम्) वीर, (दानौकसम्) दान के घर [बड़े दानी], (गूर्तश्रवसम्) उद्यमयुक्त यशवाले, (पुराम्) शत्रुओं के गढ़ों के (दर्माणम्) ढानेवाले [सभापति] को (वन्दध्यै) सत्कार करने के लिये (सम्) अच्छे प्रकार (अञ्जे) मैं चाहता हूँ ॥॥
भावार्थभाषाः - जैसे फुरतीले घोड़े को चढ़ने और रथ आदि ले चलने के लिये चाहते हैं, वैसे ही मनुष्य शुभगुण वाले महाकीर्तिमान् पुरुषार्थी जन को संसार के हित के लिये आदर से चाहते हैं ॥॥
टिप्पणी: −(अस्मै) संसारहिताय (इत्) एव (उ) वितर्के (सप्तिम्) वसेस्तिः। उ०४।१८०। इति षप समवाये-ति। सप्तिरिति अश्वनाम-निघ०१।१४। शीघ्रगामिनम् अश्वम् (इव) यथा (श्रवस्या) सुप आत्मनः क्यच्। पा०३।१।८। श्रवस्-क्यच्। तस्मात् अप्रत्ययः, टाप्। तृतीयायां डादेशः। कीर्तीच्छया (इन्द्राय) परमैश्वर्यप्राप्तये (अर्कम्) अर्चनीयम् (जुह्वा) अ०१८।४।। हु दानादानादनेषु-क्विप्, तृतीयैकवचनम्। दानादानक्रियया (सम्) सम्यक् (अञ्जे) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-आत्मनेपदं छान्दसम्। अहं कामये (वीरम्) शूरम् (दानौकसम्) दानस्य गृहम्। महादानिनम् (वन्दध्ये) तुमर्थे सेसेनसे०। पा०३।४।९। वदि अभिवादनस्तुत्योः-कध्यै। वन्दितुम्। सत्कर्तुम् (पुराम्) शत्रूणां पुराणां दुर्गाणाम् (गूर्तश्रवसम्) नसत्तनिषत्ताऽनुत्तप्रतूर्तसूर्तगूर्तानिच्छन्दसि। पा०८।२।६१। गूरी उद्यमने-क्त नत्वाभावः। गूर्णम् उद्योगयुक्तं श्रवो यशो यस्य तम् (दर्माणम्) सर्वधातुभ्यो मनिन्। उ०४।१४। दॄ विदारणे-मनिन्। विदारयितारम् ॥
