यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
य: । सुन्वन्तम् । अवति । य: । पचन्तम् । य: । शंसन्तम् । य: । शशमानम् । ऊती ॥ यस्य । ब्रह्म । वर्धनम् । यस्य । सोम: । यस्य । इदम् । राध: । स: । जनास: । इन्द्र:॥३४.१५॥
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
