वांछित मन्त्र चुनें

यः श॑म्ब॑रं प॒र्यत॑र॒त्कसी॑भि॒र्योऽचा॑रुका॒स्नापि॑बत्सु॒तस्य॑। अ॒न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त्स ज॑नास॒ इन्द्रः॑ ॥

मन्त्र उच्चारण
पद पाठ

य: । शम्बरम् । परि । अतरत् । कसीभि: । य: । अचारु । कास्ना । अपिबत् । सुतस्य ॥ अन्त: । गिरौ । यजमानम् । बहुम् । जनम् । यस्मिन् । आमूर्च्छत् । स: । जनास: । इन्द्र: ॥३४.१२॥

अथर्ववेद » काण्ड:20» सूक्त:34» पर्यायः:0» मन्त्र:12


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (यः) जिसने (शम्बरम्) मेघ [के समान उपकारी पुरुष] को (कसीभिः) ज्ञानों के साथ (परि) सब प्रकार (अतरत्) तराया है, (यः) जिस (अचारु) अचालु [निश्चल] ने (कास्ना) प्रकाश के साथ (सुतस्य) तत्त्व का (अपिबत्) पान कराया है। और [जिसने] (यस्मिन्) जिस (गिरौ अन्तः) तत्त्वज्ञान के भीतर (बहुम्) बहुत से (यजमानम्) यज्ञ करनेवाले (जनम्) लोगों को (आमूर्छत्) सब प्रकार बढ़ाया है, (जनासः) हे मनुष्यो (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१२॥
भावार्थभाषाः - परमात्मा उपकारी ज्ञानी पुरुषों को दुःख से पार करता और वैदिक तत्त्वों पर चलनेवालों को बढ़ाता है, हम उस परमेश्वर की भक्ति करें ॥१२॥
टिप्पणी: १२−(यः) इन्द्रः (शम्बरम्) म०११–। मेघमिवोपकारिणम् (परि) सर्वतः (अतरत्) तृ तरणे-लङ्। पारं कृतवान् (कसीभिः) अवितॄस्तृतन्त्रिभ्य ईः। उ०३।१८। कस गतिशासनयोः-ईप्रत्ययः। कसतीति गतिकर्मा-निघ०२।१४। ज्ञानैः (यः) (अचारु) चर गतौ-उण्। विभक्तेर्लुक्। अचारुः। अचालुः। निश्चलः (कास्ना) रास्नासास्ना०। उ०३।१। कासृ शब्दे दीप्तौ च-नप्रत्ययः, टाप्, विभक्तेराकारः। कास्नया दीप्त्या (अपिबत्) अन्तर्गतण्यर्थः। पानमकारयत् (सुतस्य) निष्पादितस्य तत्त्वस्य (अन्तः) मध्ये (गिरौ) कॄगॄशृपृ०।४।१४३। गॄ विज्ञापने-इप्रत्ययः। तत्त्वज्ञाने (यजमानम्) (बहुम्) बहुसंख्याकम् (जनम्) मनुष्यसमूहम् (यस्मिन्) ज्ञाने (आमूर्छत्) आङ्+मूर्छा मोहसमुच्छ्राययोः-लङ्। समन्ताद् वर्धितवान्। अन्यद् गतम् ॥