अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते। म॑म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षं ज॒ठर॒ आ वृ॑षस्व ॥
पद पाठ
अपा: । पूर्वेषाम् । हरिऽव: । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ॥ ममध्दि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥३२.३॥
अथर्ववेद » काण्ड:20» सूक्त:32» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (हरिवः) हे उत्तम मनुष्योंवाले ! [राजन्] तूने (पूर्वेषाम्) पहिले महात्माओं के (सुतानाम्) निचोड़ों [सिद्धान्तों] का (अपाः) पान किया है, (अथो) इसीलिये (इदम्) यह (सवनम्) ऐश्वर्य (केवलम्) केवल (ते) तेरा है। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (मधुमन्तम्) ज्ञानयुक्त (सोमम्) ऐश्वर्य को (ममद्धि) तृप्त कर और (वृषन्) हे बलवान् ! (सत्रा) सत्य रीति से (जठरे) प्रसिद्ध हुए जगत् के बीच (आ) सब ओर से (वृषस्व) बरसा ॥३॥
भावार्थभाषाः - राजा पूर्व महात्माओं के सिद्धान्तों पर चलकर ऐश्वर्य प्राप्त करे और उसका सत्प्रयोग करके संसार को सुख देवे ॥३॥
टिप्पणी: ३−(अपाः) पीतवानसि (पूर्वेषाम्) पूर्वमहात्मनाम् (हरिवः) अ०२०।३१।। हे श्रेष्ठमनुष्ययुक्त (सुतानाम्) निष्पादितानां सिद्धान्तानाम् (अथो) अपि च (इदम्) दृश्यमानम् (सवनम्) ऐश्वर्यम् (केवलम्) असाधारणम्। विशेषम् (ते) तव (ममद्धि) मदी आमोदे-शपः श्लुः। हर्षय। तर्पय (सोमम्) ऐश्वर्यम् (मधुमन्तम्) ज्ञानयुक्तम् (इन्द्र) हे परमैश्वर्यवन् राजन् (सत्रा) निघ०३।१०। सत्येन (वृषन्) हे महाबलवन् (जठरे) अ०२०।२४।। प्रादुर्भूते जगति (आ) समन्तात् (वृषस्व) वर्षय ॥
