स्रुवे॑व यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः। प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥
स्रुवाऽइव । यस्य । हरिणी इति । विऽपेततु: । शिप्रे इति । वाजाय । हरिणी इति । दविध्वत: ॥ प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धस: ॥३१.४॥
पण्डित क्षेमकरणदास त्रिवेदी
पुरुषार्थ करने का उपदेश।
