वांछित मन्त्र चुनें

सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः। द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

मन्त्र उच्चारण
पद पाठ

स: । अस्य । वज्र: । हरित: । य: । आयस: । हरि: । निकाम: । हरि: । आ । गभस्त्यो: ॥ द्युम्नी । सुऽशिप्र: । हरिमन्युऽसायक: । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ।३०.३॥

अथर्ववेद » काण्ड:20» सूक्त:30» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

बल और पराक्रम का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस [सेनापति] का (सः) वह (हरितः) शत्रुनाशक, (आयसः) लोहे का बना (वज्रः) वज्र [शस्त्र] है, (यः) जो (गभस्त्योः) दोनों भुजाओं पर (निकामः) बड़ा प्रिय, (हरिः) सिंह [के समान] (आ) और (हरिः) सूर्य [के समान] (द्युम्नी) तेजस्वी, (सुशिप्रः) बहुत काटनेवाला [बड़ा कटीला वा दन्तीला] और (हरिमन्युसायकः) सर्प [के समान शत्रु] के क्रोध का नाश करनेवाला है। (इन्द्रे) इन्द्र [बड़े ऐश्वर्यवाले सेनापति] में (हरिता) स्वीकार करने योग्य (रूपा) रूप [सुन्दरपन] (नि) दृढ़ करके (मिमिक्षिरे) सींचे गये हैं ॥३॥
भावार्थभाषाः - सेनापति दृढ़ तीक्ष्ण हथियारों से शत्रुओं का नाश करके अपने उत्तम गुणों से प्रजा का पालन करे ॥३॥
टिप्पणी: ३−(सः) प्रसिद्धः (अस्य) सेनापतेः (वज्रः) दण्डशस्त्रम् (हरितः) हृश्याभ्यामितन्। उ० ३।९३। हृञ् नाशने-इतन्। शत्रुनाशकः (यः) वज्रः (आयसः) लोहनिर्मितः (हरिः) सिंह इव (निकामः) नितरां कमनीयः प्रियः (हरिः) सूर्य इव (आ) समुच्चये (गभस्त्योः) गम्यते ज्ञायते इति गः विषयः, गम-ड, तं बभस्ति भासयति दीपयतीति। क्तिच्क्तौ च। पा० ३।३।७। भस दीप्तौ-क्तिच्। गभस्ती बाहूनाम-निघ० २-४। भुजयोः (द्युम्नी) अ० ६।३।३। द्युत दीप्तौ-नप्रत्ययः, कित्, तस्य मः, द्युम्न-इति। दीप्तिमान् (सुशिप्रः) अ० २०।४।१। शिञ् निशाने छेदने-रक् पुक् च। बहुच्छेदकः। बहुकण्टकः। बहुदन्तः (हरिमन्युसायकः) हरेः सर्पस्येव शत्रोः क्रोधस्य नाशकः (इन्द्रे) परमैश्वर्यवति सेनापतौ (नि) नितराम् (रूपा) सौन्दर्याणि (हरिता) हृञ् स्वीकारे-इतन्। स्वीकरणीयानि (मिमिक्षिरे) मिह सेचने-सन्-कर्मणि लडर्थे लिट्। मेढुं सेक्तुम् इष्टानि भवन्ति। सिक्तानि सन्ति ॥