वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: अष्टकः छन्द: त्रिष्टुप् स्वर: सूक्त-२५

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्। इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥

मन्त्र उच्चारण
पद पाठ

प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ॥ इन्द्र । धेनाभि: । इह । मादयस्व । धीभि: । विश्वाभि: । शच्या । गृणान: ॥२५.७॥

अथर्ववेद » काण्ड:20» सूक्त:25» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्वानों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (हर्यश्व) हे वायु समान फुरतीले घोड़ोंवाले ! (वृष्णे तुभ्यम्) तुझ महाबली को (प्रयै) आगे चलने के लिये (सुतस्य) निचोड़ [सिद्धान्त] का (उग्राम्) तीव्र, (सत्याम्) सत्यगुणवाला (पीतिम्) घूँट (प्र इयर्मि) आगे रखता हूँ। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले विद्वान्] (धेनाभिः) वेदवाणियों द्वारा (इह) यहाँ पर (विश्वाभिः) समस्त (धीभिः) बुद्धियों से और (शच्या) कर्म से (गृणानः) उपदेश करता हुआ तू (मादयस्व) आनन्द दे ॥७॥
भावार्थभाषाः - जो मनुष्य फुरतीली सेनावाला ज्ञानवान् और बलवान् हो, सब लोग आदर करके उस बुद्धिमान् कर्मकुशल की वैदिक शिक्षाओं से आनन्द पावें ॥७॥
टिप्पणी: यह मन्त्र ऋग्वेद में है-१०।१०४।३। और आगे है-अ० २०।३३।२ ॥ इति तृतीयेऽनुवाके द्वितीयः पर्यायः ॥ ७−(उग्राम्) तीव्राम् (पीतिम्) पानम् (वृष्णे) महाबलवते (प्र इयर्मि) ऋ गतौ जुहोत्यादिः। प्रेरयामि। अग्रे धरामि (सत्याम्) यथार्थगुणयुक्ताम् (प्रयै) प्रयै रोहिष्यै अव्यथिष्यै। पा० ३।४।१०। प्र+या गतिप्रापणयोः-कैप्रत्ययः, तुमर्थे। प्रयातुम्। अग्रे गन्तुम् (सुतस्य) (संस्कृतस्य) सिद्धान्तस्य (हर्यश्व) अ० ।३।८। हृञ् प्रापणस्वीकारस्त्येननाशनेषु-इन्+अशू व्याप्तौ-क्वन्। हरी इन्द्रस्य-निघ० २।१। हरिर्वायुः। हे हरिभिर्वायुतुल्यैः शीघ्रगामिभिस्तुरङ्गैर्युक्त (तुभ्यम्) (इन्द्र) हे परमैश्वर्यवन् विद्वन् (धेनाभिः) धेट इच्च। उ० ३।११। धेट् पाने-नप्रत्ययः, टाप्। धेना वाङ्नाम-निघ० १।११। वेदवाणीभिः (इह) अत्र (मादयस्व) आनन्दय (धीभिः) प्रज्ञाभिः (विश्वाभिः) सर्वाभिः (शच्या) अ० ।११।८। शच व्यक्तायां वाचि-इन्, ङीप्। कर्मणा-निघ० २।१। (गृणानः) उपदिशंस्त्वम् ॥