य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि। आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥
पद पाठ
यज्ञै: । अथर्वा । प्रथम: । पथ: । तते । तत: । सूर्य: । व्रतपा: । वेन: ।आ । अजनि ॥ आ । गा: । आजत् । उशना । काव्य: ।सचा । यमस्य । जातम् । अमृतम् । यजामहे ॥२५.५॥
अथर्ववेद » काण्ड:20» सूक्त:25» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (प्रथमः) सबसे पहिले वर्तमान (अथर्वा) निश्चल परमात्मा ने (यज्ञैः) संगति कर्मों [परमाणुओं के मेलों] से (पथः) मार्गों को (तते) फैलाया, (ततः) फिर (व्रतपाः) नियम पालनेवाला, (वेनः) पियारा (सूर्यः) सूर्यलोक (आ) सब ओर (अजनि) प्रकट हुआ। (उशना) पियारे, (काव्यः) बड़ाई योग्य उस [सूर्य] ने (गाः) पृथिवियों [चलते हुए लोकों] को (आ) सब ओर (आजत्) खींचा हैं, (यमस्य) उस नियमकर्ता परमेश्वर के (सचा) मेल से (जातम्) उत्पन्न हुए (अमृतम्) अमरण [मोक्षसुख वा जीवनसामर्थ्य] को (यजामहे) हम पाते हैं ॥॥
भावार्थभाषाः - जिस परमात्मा ने आकाश, सूर्य, पृथिवी आदि लोक बनाकर हमें जीवन दिया है, उस बड़े जगदीश्वर की उपासना से विद्वान् लोग आत्मिक बल बढ़ाकर मोक्षसुख भोगें ॥॥
टिप्पणी: −(यज्ञैः) संगतिकरणैः। परमाणूनां संगमैः (अथर्वा) अ० ४।१।७। नञ्+थर्व चरणे-गतौ-वनिप्, वलोपः। निश्चलः परमेश्वरः (प्रथमः) सर्वेषामादिः (पथः) मार्गान् (तते) तनु विस्तारे-लिट्, छान्दसं रूपम्। तेने। विस्तारितवान् (सूर्यः) सवितृलोकः (व्रतपाः) नियमपालकः (वेनः) कमनीयः (आ) समन्तात् (अजनि) जनी प्रादुर्भावे-लुङ्। प्रादुरभूत् (आ) समन्तात् (गाः) गमनशीलान् पृथिव्यादिलोकान् (आजत्) अज गतिक्षेपणयोः-लङ्। प्रक्षिप्तवान्। आकर्षणे धारितवान् (उशना) वशेः क्नसि। उ० ४।२३९। वश कान्तौ-क्नसि, सम्प्रसारणं च। ऋदुशनस्पुरदंशोऽनेहसां च। पा० ७।१।९४। अनङ् आदेशः। सर्वनामस्थाने चा०। पा० ६।४।८। उपधादीर्घः। हल्ङ्याञ्भ्यो०। पा० ६।१।६८। सुलोपः। नलोपः प्रातिपदिकान्तस्य। पा० ८।२।७। नलोपः। कमनीयः (काव्यः) अ० ४।१।६। कवृ स्तुतौ-ण्यत्। स्तुत्यः सूर्यः (सचा) षच समवाये-क्विप्। सम्मेलनेन (यमस्य) सर्वनियन्तुः परमेश्वरस्य (जातम्) उत्पन्नम्। प्रसिद्धम् (अमृतम्) अमरणम्। मोक्षसुखं जीवनसामर्थ्यं वा (यजामहे) संगच्छामहे। प्राप्नुमः ॥
