वांछित मन्त्र चुनें

व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे। उ॒त त्वम॑स्म॒युर्व॑सो ॥

मन्त्र उच्चारण
पद पाठ

वयम् । इन्द्र । त्वाऽयव: । हविष्मन्त: । जरामहे ॥ उत । त्वम् । अस्मऽयु: । वसो इति ॥२३.७॥

अथर्ववेद » काण्ड:20» सूक्त:23» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (त्वायवः) तुझे चाहनेवाले (उत) और (हविष्मन्तः) देने योग्य वस्तुओंवाले (वयम्) हम [तुझको] (जरामहे) सराहते हैं। (वसो) हे वसु ! [श्रेष्ठ वा निवास करानेवाले] (त्वम्) तू (अस्मयुः) हमें चाहनेवाला है ॥७॥
भावार्थभाषाः - राजा और प्रजा प्रीति करके उन्नति के साथ सुखी रहें ॥
टिप्पणी: ७−(वयम्) (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायवः) सुप आत्मनः क्यच्। पा० ३।१।८। युष्मद्-क्यच्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। क्याच्छन्दसि। पा० ३”।२।१७०। इति उप्रत्ययः। त्वां कामयमानाः (हविष्मन्तः) दातव्यवस्तूपेताः (जरामहे) स्तुमः, त्वाम् (उत) अपि च (त्वम्) (अस्मयुः) अस्मद्-क्यचि उ प्रत्ययो दकारलोपश्छान्दसः। अस्मान् कामयमानः (वसो) हे श्रेष्ठ ! निवासयितः ॥