वांछित मन्त्र चुनें

आ तू न॑ इन्द्र म॒द्र्यग्घुवा॒नः सोम॑पीतये। हरि॑भ्यां याह्यद्रिवः ॥

मन्त्र उच्चारण
पद पाठ

आ । तु । न: । इन्द्र । मद्र्यक् । हुवान: । सोमऽपीतये ॥ हरिऽभ्याम् । याहि । अद्रिऽव: ॥२३.१॥

अथर्ववेद » काण्ड:20» सूक्त:23» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अद्रिवः) हे वज्रधारी (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (सोमपीतये) पदार्थों की रक्षा के लिये (हुवानः) बुलाया गया, (मद्र्यक्) मुझको प्राप्त होता हुआ तू (हरिभ्याम्) दो घोड़ों [के समान व्यापक बल और पराक्रम] से (नः) हमको (तु) शीघ्र (आ याहि) प्राप्त हो ॥१॥
भावार्थभाषाः - राजा अपनी प्रजा के पदार्थों की रक्षा के लिये बल और पराक्रम के साथ शीघ्र उपाय करे ॥१॥
टिप्पणी: यह सूक्त ऋग्वेद में है-३।४१।१-९ ॥ १−(आ याहि) आगच्छ (तु) शीघ्रम् (नः) अस्मान् (इन्द्र) हे परमैश्वर्यवन् राजन् (मद्र्यक्) ऋत्विग्दधृक्०। पा० ३।२।९। अस्मत्+अञ्चु गतिपूजनयोः-क्विन्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। अस्मच्छब्दस्यैकवचने मपर्यन्तस्य म इत्यादेशः। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा० ६।३।९२। इति टेः अद्रि इत्यादेशः। माम् अञ्चति प्राप्नोति यः सः (हुवानः) हूयमानः (सोमपीतये) अ० १७।१।१। सोमानां पदार्थानां पीती रक्षणं यस्मिन् व्यवहारे तस्मिन्-दयानन्दभाष्य ऋक्० १।२१।३। (हरिभ्याम्) अश्वसदृशाभ्यां व्यापकाभ्यां बलपराक्रमाभ्याम् (अद्रिवः) अ० २०।२०।४। हे वज्रिन् ॥