वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: सव्यः छन्द: जगती स्वर: सूक्त-२१

ए॒भिर्द्युभि॑र्सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः समि॒षा र॑भेमहि ॥

मन्त्र उच्चारण
पद पाठ

एभि: । द्युऽभि: । सुऽमना । एभि: । इन्दुऽभि: । निऽरुन्धान: । अमतिम् । गोभि: । अश्विना ॥ इन्द्रेण । दस्युम् । दुरयन्त: । इन्दुऽभि: । युतऽद्वेषस: । सम् । इषा । रभेमहि ॥२१.४॥

अथर्ववेद » काण्ड:20» सूक्त:21» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (एभिः) इन (द्युभिः) तेजों से और (एभिः) इन (इन्दुभिः) ऐश्वर्यों से (सुमनाः) प्रसन्न मनवाला, और (गोभिः) गौओं से और (अश्विना) घोड़ों से (अमतिम्) दरिद्रता को (निरुन्धानः) रोकनेवाला वह है। (इन्द्रेण) उस इन्द्र [बड़े ऐश्वर्यवाले राजा] के साथ (इन्दुभिः) ऐश्वर्यों के द्वारा (दस्युम्) डाकू को (दरयन्तः) दर डालनेवाले और (युतद्वेषसः) द्वेष से अलग रहनेवाले हम (इषा) अन्न के साथ (सं रभेमहि) संयुक्त होवें ॥४॥
भावार्थभाषाः - तेजस्वी, परम ऐश्वर्यवान्, न्यायकारी राजा की सुनीति से दुराचारियों का नाश होकर प्रजा के धन-धान्य की बढ़ती होती है ॥४॥
टिप्पणी: ४−(एभिः) प्रत्यक्षैः (द्युभिः) तेजोभिः (सुमनाः) प्रसन्नचित्तः (एभिः) (इन्दुभिः) ऐश्वर्यैः (निरुन्धानः) रुधिर् आवरणे-शानच्। निवर्तयन् (अमतिम्) पीडकम्। दारिद्र्यम् (गोभिः) धेनुभिः (अश्विना) अश्व-इनि। सुपां सुलुक्०। पा० ७।१।३९। तृतीयाबहुवचनस्य आकारः। अश्वो मार्गव्याप्तिर्यस्यास्तीति अश्वी, यद्वा स्वार्थे इनिः। अश्वैः। तुरङ्गैः (इन्द्रेण) परमैश्वर्यवता राज्ञा (दस्युम्) बलात्कारेण परस्वहर्तारम् (दरयन्तः) विदारयन्तः। नाशयन्तः (इन्दुभिः) ऐश्वर्यैर्द्वारा (युतद्वेषसः) यु मिश्रणामिश्रणयोः-क्त। युतानि पृथग्भूतानि द्वेषांसि शत्रुकर्माणि येषां ते (इषा) अन्नेन (सं रभेमहि) संरब्धाः संगता भवेम ॥