वांछित मन्त्र चुनें

अ॑र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो। इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ॥

मन्त्र उच्चारण
पद पाठ

अर्वाचीनम् । सु । ते । मन: । उत । चक्षु: । शतक्रतो इति शतऽक्रतो ॥ इन्द्र । कृण्वन्तु । वाघत: ॥१९.२॥

अथर्ववेद » काण्ड:20» सूक्त:19» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों कर्मों वा बुद्धियोंवाले (इन्द्र) इन्द्र ! [परम ऐश्वर्यवान् राजन्] (वाघतः) निबाहनेवाले बुद्धिमान् लोग (ते) तेरे (मनः) मन (उत) और (चक्षुः) नेत्र को (अर्वाचीनम्) हमारी ओर आनेवाला (सु) आदर के साथ (कृण्वन्तु) करें ॥२॥
भावार्थभाषाः - बुद्धिमान् लोग चतुर पुरुषार्थी राजा को प्रजापालन आदि शुभ गुणों में प्रवृत्त करते रहें ॥२॥
टिप्पणी: २−(अर्वाचीनम्) अस्मदभिमुखीगतम् (सु) पूजायाम् (ते) तव (मनः) चित्तम् (उत) अपि च (चक्षुः) नेत्रम् (शतक्रतो) क्रतुः कर्मनाम-निघ० २।१। प्रज्ञानाम ३।९। हे बहुकर्मन् ! हे बहुप्रज्ञ (इन्द्र) (कृण्वन्तु) कुर्वन्तु (वाघतः) संश्चत्तृपद्वेहत्। उ० २।८। वह प्रापणे-अतिप्रत्ययः, उपधावृद्धिर्हस्य घः। निर्वाहकाः मेधाविनः-निघ० ३।१ ॥