वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: वसिष्ठः छन्द: गायत्री स्वर: सूक्त-१८

व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन्। वि॒द्धि त्वस्य नो॑ वसो ॥

मन्त्र उच्चारण
पद पाठ

वयम् । इन्द्र । त्वाऽयव: । अभि । प्र । नोनुम: । वृषन् । विद्धि । तु । अस्य । न: । वसो इति ॥१८.४॥

अथर्ववेद » काण्ड:20» सूक्त:18» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (वृषन्) हे महाबली ! (इन्द्रः) इन्द्र [महाप्रतापी राजन्] (त्वायवः) तुझे चाहते हुए (वयम्) हम (अभि) सब ओर को (प्र) अच्छे प्रकार (नोनुमः) सराहते हैं। (वसो) हे बसानेवाले ! (नः) हमारे (अस्य) इस [कर्म] का (तु) शीघ्र (विद्धि) ज्ञान कर ॥४॥
भावार्थभाषाः - जिस प्रकार प्रजागण धर्मात्मा राजा से प्रीति करें, वैसे ही राजा भी धार्मिक प्रजा को चाहे ॥४॥
टिप्पणी: मन्त्र ४-६ ऋग्वेद में हैं-७।३१।४-६ और मन्त्र ४ सामवेद में है-पू० २।४।८ ॥ ४−(वयम्) (इन्द्रः) (त्वायवः) मृगय्वादयश्च। उ० १।३७। युष्मत्+या प्रापणे-कुप्रत्ययः। यद्वा सुप आत्मनः क्यच्। पा० ३।१।८। युष्मत्-क्यच्, उप्रत्ययः। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। त्वदित्यत्र तलोपः, अकारदीर्घत्वं च छान्दसम्। त्वां प्राप्ताः। त्वां कामयमानाः (अभि) सर्वतः (प्र) प्रकर्षेण (नोनुमः) णु स्तुतौ-यङ्लुक्। भृशं स्तुमः (वृषन्) हे बलवन् (विद्धि) ज्ञानं कुरु (तु) शीघ्रम् (अस्य) कर्मणः (नः) अस्माकम् (वसो) हे वासयितः ॥