वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: कृष्णः छन्द: जगती स्वर: सूक्त-१७

वृषा॒ न क्रु॒द्धः प॑तय॒द्रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः। स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥

मन्त्र उच्चारण
पद पाठ

वृषा । न । क्रुध्द: । पतयत् । रज:ऽसु । आ । य: । अर्यऽपत्नी: । अकृणोत् । इमा: । अप: ॥ स: । सुन्वते । मघऽवा । जीरदानवे । ‍अविन्दत् । ज्योति: । मनवे । हविष्मते ॥१७.८॥

अथर्ववेद » काण्ड:20» सूक्त:17» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (क्रुद्धः) क्रुद्ध (वृषा न) बैल के समान, (यः) जो [सेनापति] (रजःसु) देशों में (आ पतयत्) झपट पड़ता है, और [जिसने] (इमाः) इन (अपः) प्रजाओं को (अर्यपत्नीः) स्वामी से रक्षित (अकृणोत्) किया है। (सः) उस (मघवा) महाधनी [सेनापति] ने (सुन्वते) तत्त्व निचोड़नेवाले, (जीरदानवे) शीघ्रदानी और (हविष्मते) ग्राह्य पदार्थोंवाले (मनवे) मननशील पुरुष के लिये (ज्योतिः) प्रकाश को (अविन्दत्) पाया है ॥८॥
भावार्थभाषाः - पराक्रमी सेनापति शत्रुओं को यथावत् दण्ड देकर प्रजा की रक्षा करे और राजभक्तों को यथोचित ऊँचा करके प्रतापी बनावे ॥८॥
टिप्पणी: ८−(वृषा) बलीवर्दः (न) यथा (क्रुद्धः) कुपितः (पतयत्) पतयति पतति शीघ्रं धावति (रजःसु) देशेषु (आ) समन्तात् (यः) सेनापतिः (अर्यपत्नीः) अर्येण स्वामिना पालिताः (अकृणोत्) अकरोत् (इमा) दृश्यमानाः (अपः) प्राप्ताः प्रजाः (सः) (सुन्वते) तत्त्वस्य निष्पादयित्रे (मघवा) महाधनी (जीरदानवे) अ० ७।१८।२। शीघ्रदानिने (अविन्दत्) अलभत (ज्योतिः) प्रकाशम् (मनवे) मननवते पुरुषाय (हविष्मते) ग्राह्यपदार्थयुक्ताय ॥