वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: कृष्णः छन्द: जगती स्वर: सूक्त-१७

विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द्वृषा॑। यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पृतन्य॒तः ॥

मन्त्र उच्चारण
पद पाठ

विशम्ऽविशम् । मघऽवा । परि । अशायत । जनानाम् । धेना: । अवऽचाकशत् । वृषा ॥ यस्य । अह । शक्र: । सवनेषु । रण्यति । स: । तीव्रै: । सोमै: । सहते । पृतन्यत: ॥१७.६॥

अथर्ववेद » काण्ड:20» सूक्त:17» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (मघवा) महाधनी, (वृषा) बलवान् [सेनापति] (जनानाम्) मनुष्यों की (धेनाः) वाणियों को (अवचाकशत्) ध्यान से देखता हुआ (विशंविशम्) मनुष्य-मनुष्य को (परि अशायत) पहुँचा है। (शक्रः) शक्तिमान् [सेनापति] (यस्य अह) जिसके ही (सवनेषु) यज्ञों के बीच (रण्यति) पहुँचता है, (सः) वह [मनुष्य] (तीव्रैः) पौष्टिक (सोमैः) सोमों [ऐश्वर्यों वा महौषधियों के रसों] से (पृतन्यतः) सेना चढ़ानेवाले [शत्रुओं] को (सहते) हराता है ॥६॥
भावार्थभाषाः - चतुर सेनापति समस्त प्रजा की पुकार सुनकर ऐसे-ऐसे उत्तम उपाय करे, जिससे प्रजागण ऐश्वर्यवान् और बलवान् होकर शत्रुओं को जीतें ॥६॥
टिप्पणी: ६−(विशंविशम्) मनुष्यं मनुष्यम् (मघवा) महाधनी सेनापतिः (परि अशायत) शीङ् शयने णिचि-लङ्। प्राप्तवान् (जनानाम्) मनुष्याणाम् (धेनाः) वाणीः-निघ० १।११ (अवचाकशत्) अ० ६।८०।१। अव+काशृ दीप्तौ यङ्लुकि शतृ। भृशं पश्यन्-निघ० ३।११। (वृषा) महाबली (यस्य) पुरुषस्य (अह) एव (शक्रः) शक्तिमान् (सवनेषु) यज्ञेषु (रण्यति) रण गतौ शब्दे च दिवादिः। गच्छति। प्राप्नोति (सः) मनुष्यः (तीव्रैः) तीव्र स्थौल्ये-रक्। स्थूलैः। पौष्टिकैः (सोमैः) ऐश्वर्यैः। सदौषधिरसैः (सहते) अभिभवति (पृतन्यतः) पृतनां सेनामात्मन इच्छतः शत्रून् ॥