वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: गोतमः छन्द: त्रिष्टुप् स्वर: सूक्त-१५

त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ। अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । तम् । इन्द्र । पर्वतम् । महान् । उरुम् । वज्रेण ॥ वज्र‍िन् । पर्वऽश: । चकर्तिथ ॥ अव । असृज: । निऽवृता: । सर्तवै । अप: । सत्रा । विश्वम् । दधिषे । केवलम् । सह: ॥१५.६॥

अथर्ववेद » काण्ड:20» सूक्त:15» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभाध्यक्ष के गुणों का उपदेश।

पदार्थान्वयभाषाः - (वज्रिन्) हे वज्रधारी (इन्द्र) इन्द्र ! [महाप्रतापी राजन्] (त्वम्) तूने (तम्) उस (महाम्) बड़े, (उरुम्) चौड़े (पर्वतम्) पहाड़ के (वज्रेण) वज्र [हथियारों के झुण्ड] से (पर्वशः) टुकड़े-टुकड़े करके (चकर्तिथ) काट डाला है। और (निवृतः) रोके हुए (अपः) जलों को (सर्तवै) बहने के लिये (अव असृजः) छोड़ दिया है, (सत्रा) सत्य रूप से (विश्वम्) सम्पूर्ण, (केवलम्) असाधारण (सहः) बल को (दधिषे) तूने धारण किया है ॥६॥
भावार्थभाषाः - जो वीर पराक्रमी राजा पहाड़ों को काटकर वहाँ पर एकत्र हुए जल को पृथिवी पर लाकर खेती आदि में उपयुक्त करे, वह संसार के बीच कीर्तिमान् होवे ॥६॥
टिप्पणी: ६−(त्वम्) (तम्) प्रसिद्धम् (इन्द्र) महाप्रतापिन् राजन् (पर्वतम्) शैलम् (महाम्) नकारतकारयोर्लोपः। महान्तम् (उरुम्) विस्तीर्णम् (वज्रेण) आयुधसमूहेन (वज्रिन्) हे शस्त्रास्त्रधारिन् (पर्वशः) खण्डशः (चकर्तिथ) कृती छेदने-लिट्। छिन्नवानसि (अवासृजः) मुक्तवानसि (निवृताः) निवारिताः। निरुद्धाः (सर्तवै) सरतेः कृत्यार्थे तवैप्रत्ययः। सरणाय। वहनाय (अपः) जलानि (सत्रा) सत्यरूपेण (विश्वम्) सर्वम् (दधिषे) धारितवानसि (केवलम्) असाधारणम् (सहः) बलम् ॥